________________
अलंकारकौस्तुभः । मुपमेयस्याभेदः सारोपलक्षणया प्रतीयते तद्रूपकमित्यर्थः । [' ............
वैयादिदं [न] लक्षणमिति सूचयन्नाह-लक्षणं त्विति । इतरभेदसाधक इत्यर्थः । उपमेयतेति । मुखं चन्द्र इत्यत्र मुखत्वमुपमेयतावच्छेदकं तदधिकरणे मुखे चन्द्रतादात्म्यं प्रतीयत इति लक्षणसमन्वयः । भ्रान्तिमतीति । अतिशयोक्तेरप्युपलक्षणम् । अप्रतीतेरिति । इदंत्वेनैव तत्रोपमेयताभानादुपमेयता. वच्छेदकप्रकारकतद्भानाभावादिति भावः । न च भानविरहेऽपि तत्सामानाधिकरण्यं वस्तुतोऽस्त्येवेति कथं न व्यभिचार इति वाच्यम् । उपमेयतावच्छेदकधर्मितावच्छेदकृत्येति(दकयोः) सामानाधिकरण्ये तात्पर्यात् । अविशिष्टत्वादिति । पूर्वमुपमेयतावच्छेदकप्रतीत्यभावादपह()तौ च तत्रोपमेयतावच्छेदकनिषेधात् । उपमेयतावच्छेदकधमधर्मितावच्छेदकीकृत्योपमानतादात्म्यप्रतीतिविरहस्तुल्य एवेत्यर्थः । अविरोधेति । कोटिद्वयांशे उत्कटत्वादिरूपविशेषविरहे इत्यर्थः । उत्प्रेक्षायां चोपमानतादात्म्यकोटेरेवोत्कटत्वान्न व्यभिचार इत्यर्थः । संशये तु प्रसङ्ग एव नास्ति । उपमेयतावच्छेदकमुखत्वादिमितावच्छेदकस्य चन्द्रादितादात्म्यकोटिकस्य मुखं चन्द्रो वेत्याकारकसंशयस्यानुपपत्तेः। मुखं चन्द्रभिन्नं न वेत्यादेश्वोपमानतादात्म्यानवगाहित्वात् । न चात्र चन्द्रभेदाभावांशे चन्द्रतादात्म्यावगाहित्वमस्त्येवेति भेदाभावस्यापि प्रतियोगिरूपत्वादिति वाच्यम् । प्रतियोगितावच्छेदकधर्मरूप एव भेदात्यन्ताभाव इति स्वीकारेणाभिधानात् ॥ नन्वेवमप्ययुक्तम्, न हि 'रूपके सर्वत्रोपमानतादात्म्यमेव भाति' इत्यस्ति नियमः । उपमानतावच्छेदकारोपस्यापि रूपकत्वाङ्गीकारात् । तथा चाग्रे उदाहरिष्यत एव । अन्यैरपि 'अस्याः पूर्णशशाङ्कतानयनयोस्तादात्म्यमम्भोरुहम्' इत्यादि उदाहृतम् । अतः संसर्गारोपरूपकसंग्रहाय उपमेयतावच्छेदकधर्मधर्मितावच्छेदकोपमानतादात्म्यतदवच्छेदकान्यतरवत्तावगाहित्वं लक्षणमावश्यकमेव । उपमानतादात्म्योपमानतावच्छेदकसंसर्गयोरननुगमासहिष्णुताया तूपमानभेदज्ञानप्रतिबन्धकज्ञानविषयत्वेन उपमानतावच्छेदकात्यन्ताभावज्ञानप्रतिबन्धकज्ञानविषयत्वेन वा उभयोरनुगमं कृत्वा प्रवेशः कार्यः । भवति च चन्द्रोऽयमिति ज्ञानं 'नायं चन्द्र इति ज्ञाने चन्द्रत्वाभाववानयम्' च ज्ञाने, 'चन्द्रत्ववानयं' इति ज्ञानं च 'नायं चन्द्र' इत्यत्र चन्द्रत्वाभाववानित्यत्र च ज्ञाने प्रतिबन्धकम् । एवं च चन्द्राभेदात्यन्ताभावस्य चन्द्रत्वरूपत्वेऽपि तत्संसर्गारोपोऽस्त्येव । एवं मुखं चन्द्रत्ववन्न वेत्यादावपीति कथं न संशयेऽतिव्याप्तिशङ्केति चेत् ॥ सत्यम् । संशये उपमानतावच्छेदकसंसर्गभानेऽपि तज्ज्ञानस्य चन्द्रभेदादिज्ञानविरोधित्वविरहात् । चन्द्रभेदस्यापि तत्र ज्ञाने कोटित्वेन स्फुरणात्। न च तत्प्रतिबन्धस्वरूपयोग्यत्वमानं तत्राप्यस्तीति वाच्यम् । अत्र तदुपहितत्वस्यैव विवक्षणीयत्वात् । न चैवं यत्र मुखं चन्द्र इति ज्ञानेन
१. अत्र कियान्मूलपाठत्रुटित इति प्रतीयते टीकायां व्याख्यानदर्शनात्, परंतु पुस्तकद्वयेऽपि नोपलब्धः..