________________
२०२
काव्यमाला।
रूपकमाह. तद्रूपकं त्वभेदः स्यादुपमानोपमेययोर्यत्र । सत्यामेव भेदप्रतीतावतिसादृश्यवशेन यत्र भेदमपहृत्योपमानेन सम
दिति । हेत्वनुपपत्तिस्तदवस्थैव, तथाप्यध्यवसानमात्रसमर्थनमात्रेण तदुक्तिरामणीयकमिति ध्येयम् । वस्तुतस्तु तदनुकूल विभक्तरित्यस्य विभक्तिपदं ज्ञानपरमेव । तथा चारोपस्थले रूपकवद्विषयतावच्छेदकप्रकारेण विषयज्ञानाभावान सारोप इत्यर्थः । एतेन यदुक्तं रसगङ्गाधरे-"एतेनाध्यवसानमूलतां संशयस्य निरूपयतो विमर्शनीका. रस्योक्तिरपास्तेति, तदपास्तम् । विषयतावच्छेदकरूपेण विषयस्यानुपस्थित्या अध्य. वसानस्यावश्यकत्वात् ॥ यदपि तत्र संशयध्वनेरुदाहरणम् –'तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम् । आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ॥' अत्र पुरोवर्तिनि कमलमिदं वेति संशयो व्यङ्गय इति, तच्चिन्त्यम् । मुग्धपदेनोभयत्र धावनसहकारेण संशयस्य वाच्यत्वात् । 'मुग्धः सुन्दरमूढयोः' इत्यनुशासनात्तेन विपरीतज्ञानवत्तालाभात् । उभयत्र धावनेन च भ्रमरत्वनिवृत्त्या संशयत्वपर्यवसानात् ॥ चित्रमीमांसायां तु 'कांचित्काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम्'। वरदः संशयापनो वक्षःस्थलमवैक्षत ॥' अत्र संशयस्य पदोपात्तत्वेऽपि तावन्मात्र. स्यानलंकारत्वात्तदलंकारत्वप्रयोजकस्य वक्षोगतैव लक्ष्मीस्ततोऽवतीर्य किं पुरतस्तिष्ठतीति संशयाकारस्य चतुर्थचरणेन व्यङ्गयत्वात्संशयध्वनिरयम् । यथा-'दर्पणे च परिभो. गदर्शिनो पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लीलया ॥' अत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थ लजाशब्दप्रयोगेऽपि तस्या विभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिरेवमत्रापि" इत्युक्तम् । अत्र रसगङ्गाधरकृतः संशयापनपदेन विरुद्ध नानापदार्थसंबन्धावगाहिज्ञानस्य साक्षादेवाभिधानात् । विरुद्धपदार्थविशेषाकाङ्क्षायां वक्षःस्थलावेक्षणगम्य उक्तार्थो व्यञ्जनव्यापारेण बोध्यमानः शब्दोपात्तसामान्यभेदेन पर्यवस्यति । एवं च संशयकोटिभूतस्य वक्षःस्थलेत्यादिभागस्य विरुद्धनानार्थत्वरूपसामान्यरूपेण शब्दशक्तिगम्यत्वाद्वाक्यार्थसंशयाङ्गत्वाच न ध्वनित्वं युक्तम् । वाच्यवृत्त्यचुम्बनस्यैव तत्त्वमिति सिद्धान्तादित्याहुः । जयरामभट्टाचार्यास्तु 'साक्षादिव श्रियं वीक्ष्य' इत्यनेन हेतूपन्यासेन इयं लक्ष्मीन वेति संशयस्य संशयपदबोध्यस्यैव नायिकोत्कर्षाधायकस्यात्रालंकारत्वं युक्तमिति न ध्वनित्वमित्याहुः ॥ इति संदेहः ॥
उपमानतावच्छेदकावच्छिन्नाभेदविषयकत्वेन संशयानन्तरं रूपकनिरूपणमित्यभिप्रायेणाह-रूपकमाहेति । लक्षणादीनां खरूपमात्रकथनपरतया लक्षणप्रवेशे
१. अस्य कोष्टकान्तर्गतस्य टीकाग्रन्थस्य मूलग्रन्थोऽस्माभिः पुस्तकद्वयेऽपि नोपलब्धः..