________________
२०१
... अलंकारकौस्तुभः। ग्रहणाय वा, गृह्यन्तां दिशश्चामराणि वा, नमन्तु शिरांसि धषि बा, कर्णपूरीक्रियतामाज्ञा मौर्वी वा' इत्यादयो व्याख्याताः ॥ एवमेव
'सिंहवत्प्रान्तरं गच्छ गृहं सेवख वा श्ववत् ।' इत्यादावप्यवधेयम् । 'सिन्दुरैः परिपूरितं किमथ वा लाक्षारसैः क्षालितं
लिप्तं वा किमु कुङ्कुमद्रवभरैरेतन्महीमण्डलम् । संदेहं जनयन्नृणामिति परित्रातत्रिलोकस्त्विषां
व्रातः प्रातरुपातनोतु भवतां भव्यानि भासां निधेः ॥' इत्यत्र तु जगन्मण्डलविशेष्यकः सिन्दूरपरिपूरितत्वादिकोटिकः संशयः । अत्र किमिदं सिन्दूररजो वा लाक्षारसो वा इत्यादिसूर्यकिरणधर्मिकसंशयानुगुण्यं दधाति । तत्रारोप्यारोपविषययोः समानविभक्तिकत्वाभावाद्रविकिरणरूपस्य धर्मिणोऽध्यवसानमिति प्राञ्चः ।। ___ रसगङ्गाधरे तु–सूर्यकिरणधर्मिकसंशयस्य गुणीभूतस्य व्यञ्जनागम्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्त्यनपेक्षत्वात्तद्विनैवारोपसंभवान्नाध्यवसानमित्युक्तम् । तच्चिन्त्यम् । मानससंशयेऽपि धर्मिण इदंत्वेनैवोपस्थितेः । सूर्यकिरणत्वस्य संशये विशेष्यतावच्छेदकत्वेनाभानात्सूर्यकिरणत्वं धर्मितावच्छेदकीकृत्याभेदसंसर्गकसिन्दूरादिप्रकारकसंदेहस्यासंभवात् । तथा च प्राचामुक्तिः रमणीयैव ॥
इत्यलंकारकौस्तुभे ससंदेहालंकारनिरूपणम् । दिति । अन्यानपेक्षजीवनसामर्थे सतीत्यर्थः । 'प्रान्तरं दूरशून्योऽध्वा' इत्यमरः । श्ववदिति । स्वातन्त्र्येण जीवितुमसामर्थे सतीत्यर्थः ॥ तत्रेति । सूर्यकिरणधर्मिकसंदेहे इत्यर्थः । समानेति । शाब्दतादात्म्यारोपे पदद्वयस्य समानविभक्त्यन्तत्वापेक्षणादिति भावः । विभक्त्यनपेति । शाब्दारोप एव तदपेक्षणादित्यर्थः । इदंत्वेन सूर्यकिरणभानेऽप्यनध्यवसानमूलकत्वमस्त्येवेत्याह-तच्चिन्त्यमित्यादि । सूर्यकिरणत्वं धर्मितावच्छेदकत्वेन संशये कुतो न भासते इत्यत आह-सूर्येति । संशयध. मितावच्छेदकीभूतधर्मः संशये आरोप्यतावच्छेदकतया आरोप्यतया वा न भासते । तनिश्चयसत्वे तत्संशयानुपपत्तेरित्यर्थः । तथा चेति । यद्यप्येवमपि विभक्त्यभावा