________________
२००
काव्यमाला।
र्माता न वा, इत्येव संशयः । निर्मातृत्वोपपादकस्य कान्तिप्रदत्वादेश्चन्द्रादिषु निर्देशादित्याहुः । युक्तं चैतत् । अन्यथा एकसंशयत्वपक्षे विशेषधर्मानुक्त्युदाहरणत्वानुपपत्तेः ॥
केचित्तु-वितर्कालंकारमप्यतिरिक्तं वदन्ति । संशयोत्तरमनिर्णये ऊहो वितर्कः । नुशब्दादिश्च तद्व्यञ्जक इति ॥
अत्राहुः-वितर्कहेतुत्वेन संशयस्यावश्यमङ्गीकार्यतया संशय एवालंकारः । न च संशये सति ब्रह्मा यदि निर्माता स्यान्निर्माणसामग्रीमान् स्यादिति तर्कस्यापाद्यं निर्माणसामग्रीमत्त्वं 'वेदाभ्यासजडः' इत्यादिना निषिध्यत इति वितर्कोऽपि पृथगिति वाच्यम् । सर्वस्रष्टुब्रह्मसत्त्वे कथमेतन्निर्मातृत्वं तत्र नास्तीत्याशङ्कामपनेतुं 'वेदाभ्यासजडः' इत्याद्युक्तेः । एवम् 'अयं मार्तण्डः किम्' इत्यादावपि यद्ययं मार्तण्डः स्यादिति तर्कापाद्यं 'समतुरगत्वं स खलु' इत्यादिना न निषिध्यते किं तु मार्तण्डत्वादिप्रकारकसंदेहे सति कथं कृशानुत्वादिप्रकारकसंशय इति मार्तण्डत्वप्रकारकसंशयनिवृत्त्यर्थमेव तदिति ॥ ___'इह नमय शिरः कलिङ्गवद्वा समरमुखे करहाटवद्धनुर्वा ।' इत्यादौ तु 'यवै/हिभिर्वा यजेत' इतिवद्व्यवस्थितविकल्पार्थो वाशब्दो न तु संशयार्थ इति । एतेन 'सज्जीक्रियन्तां करा दानाय, शस्त्र
दिनानाकोटिकाः चन्द्राद्यनेकर्मिकनिर्मातृत्वकोटिको वा संशयः । विशेषधर्मानुक्त्युदाहरणत्वविरोधापत्तेः । पूर्वसंशयव्यावर्तकधर्ममनुक्त्वैव यत्र संशयान्तरमुपनिबध्यते तस्यैव तदर्थकत्वात् । एकसंशयत्वपक्षे च पूर्वोत्तरत्वाभावादिति प्रतिबन्धेनाह-युक्तं चैतदित्यादिना । तयञ्जक इति । यथा-'किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखम्' इति ॥ किं त्विति । तदभेदबोधस्य तदन्यतादात्म्यज्ञानप्रतिबन्धकत्वादित्यर्थः । मार्तण्डत्वादि प्रकारकेति । अल्पान्तरत्वादुक्तम् । अयं मार्तण्डः किमिति शब्दात्तु अभेदसंसर्गकमार्तण्डप्रकारकसंशय एव लभ्यत इति ध्येयम् ॥ इह नमयेत्यत्र संशयालंकार इति दीक्षितमतं निरस्यति-इहेति । व्यवस्थितेति । 'असामर्थ्य संधिः क्रियताम् , सामर्थ्य तु विग्रहः' इत्यत्र तात्पर्यादित्यर्थः । यवैरिति । यागत्वसामानाधिकरण्येन व्रीहिजन्यत्वस्य यागत्वसामानाधिकरण्येन यवजन्यत्वस्य च तेन बोधनादित्यर्थः । सज्जीक्रियन्तामिति । हर्षचरिते इयमुक्तिः । सिंहव