________________
अलंकारकौस्तुभः । १९९ विशेषधर्मानुक्तौ यथा'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः ___ शृङ्गारैकरसः खयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ___ अत्र हि चन्द्रादावेतन्निर्मातृत्वसंशये पूर्वपूर्वसंदेहव्यावर्तकविशेषधर्मो नोक्तः । अत्रास्या निर्माता चन्द्रो वा वसन्तो वा मदनो वेति 'स्थाणुर्वा पुरुषो वा' इतिवद्विरुद्ध नानाभावकोटिकः संशय इति केचित् । चन्द्रो मदनो वसन्तो वास्याः स्रष्टेति एककोटिकनानाधर्मिकः संशय इति दीक्षिताः ॥
अन्ये तु-भावाभावकोटिकज्ञानमेव संशयो न तु विरुद्धनानाकोटिकमपि तस्य संशयलक्षणेऽलक्ष्यत्वोक्तेः । स्थाणुर्वा पुरुषो वेति ज्ञाने सति तदुत्तरं स्थाणुर्न वा पुरुषो न वेति संशयानुत्पत्तेरनुभवसिद्धत्वात् । तस्य संशयत्वे तु संशयात्मकज्ञानस्याप्रतिबन्धकतया तदुत्तरं संशयोत्पत्तिः स्यात् । अतः चन्द्रो निर्माता न वा, मदनो निर्माता न वा, वसन्तो निभट्टोद्भट्टेन तदेवाभिहितम् । अन्यैस्तु निश्चयान्तेऽपि वैचित्र्यानुभवादुभयोरपि व्युत्पादनं कृतमिति भावः ॥ दीक्षिता इति । एवं च विरुद्धानेककोट्यवगाहित्वं संशयलक्षणं न कार्यम् । प्रकृतस्थलेऽव्याप्तेः । एतेष्वेतन्निर्मातृसंदेहमिति प्रतीतेरेककोटिकसंशयस्यापि खीकर्तुमुचितत्वात् । वृक्षः कपिसंयोगवान् , तदभाववांश्चेत्येतत्समूहालम्बनवारणाय गुण: कपिसंयोगो न वेत्यस्य च संग्रहाय तदधिकरणान्तर्भावेन कोटिद्वयांशे विरोधभानस्वीकारमपेक्ष्य तदधिकरणावृत्तित्वज्ञानस्वीकारस्यैवोचितत्वात् । ततः 'चन्द्रो मदनो वसन्तो वास्या निर्माता' इत्यत्र एककोट्यन्वये चन्द्रादिवृत्तित्वमदनावृत्तित्वादिरूपो विरोधः संसर्गमर्यादया भासत इति दीक्षितमतं समर्थ्य मिति जयरामभट्टाचार्याः ॥ तेषामेव सिद्धान्तमाह-अन्ये विति। ननु भावाभावकोटिकज्ञानस्यैव संशयत्वे कथं स्थाणुर्वेत्यादेस्तथात्वमित्यत आह–स्थाणुरिति । विशेष्यतावच्छेदकावच्छेदेन तत्तदभावान्यतरकोट्यवगाहिसमानधर्मिकतत्तदभावप्रकारकज्ञानस्यैवं संशयत्वात् । वाशब्देन तदभावोपस्थापनात् । स्थाणुतदभावपुरुषतदभावोभयकोटिकसंशयद्वयमेव तत्रेत्यर्थः । अन्यत्र यथा तथास्तु, प्रकृते चन्द्रो निर्माता न वेत्यादिकश्चन्द्रादिविशेष्यकनिर्मातृत्वतदभावकोटिका नानासंशया एव युक्ताः,न तु निर्मातृधर्मिकचन्द्रा