________________
१९८
काव्यमाला। यत्र तूपमाननिष्ठो विशेषधर्म उच्यते तत्रोपमेयप्रकारान्तरेण संदेहो भवत्येव स निश्चयगर्भः। यथा मम'इयं विद्युबल्ली किमु न रुचिरस्याश्चिरतरं
लता किं वा हैमी न हि भवति तस्यां कृतिततिः । रतिः साक्षात् वा न भजति दृशोः सा विषयता
मिति त्वां पश्यन्तः प्रविदधति संदेहनिकरान् ॥' अत्र नायिकायामियं विद्युन्न वेति संशये जाते क्षणावस्थायित्वं विद्यु. द्धर्म उक्तः । तेन च तत्संशये निवृत्तेऽपि पुनर्लतात्वादिना संशय इति निश्चयगर्भोऽसौ । परं तु निश्चयान्ते स वाच्य एव । अत्र तु वैधर्म्यमात्रोक्त्या निश्चयव्यङ्गय इति चमत्कारानुरोधेन केचिन्निश्चयगर्भमेवाद्रियन्ते इति विशेषः ॥
ब्बोको नाम विज्ञेयः ॥' एवं च मुखपदं मुखत्वपरम् , व्याप्यत्वं च परम्परयावधेयम् । यत्र त्विति । तेन तत्कोटिकसंशयाभावेऽपि प्रकृतनिर्णयाभावात् कोट्यन्तरमादाय संशयोत्पत्तेरिति भावः । इयमिति । यत्र चिरस्थायिरुचित्वाभावो विद्युत्त्वव्याप्य इति चिरस्थायिरुचित्वज्ञाने विद्युत्कोटिकसंशयो निवर्तते । प्रकृतनिर्णायकसामग्र्यभावाच्च । प्रकारान्तरेण संदेहः । एवमग्रेऽपि बोध्यम् । कृतिततिरिति । कृतिपदं चेष्टापरम् , प्रकृतेरप्यात्मधर्मतया शरीरेऽनुपपत्तेः । लतायामप्यन्यप्रेरणाया कर्मोत्पत्तिसंभवात् चेष्टापर्यन्तानुधावनम् । अदृष्टवदात्मसंयोगासमवायिकारणिकायाः शरीरक्रियाया एव चेष्टापदार्थत्वात् । अत एव तदनन्तरमचेतनकोटिकसंशयस्यानुपपन्नत्वादाह-र. तिरिति । दृशोरिति । दृष्टिजन्यज्ञानविषयत्वाद्यापारानुबन्धिविषयताभिप्रायेण दृग्विषयत्वमभिहितम् । एवं रतित्वाभावव्याप्यदृग्विषयत्वदर्शने रतिकोटिकसंदेहनिवृ. त्तिरित्यर्थः । एवं च यत्रैककोटितावच्छेदकव्याप्यधर्मोपन्यासस्तत्र निश्चयान्तः। यत्र त्वेककोटितावच्छेदकाभावव्याप्यधर्मोपन्यासस्तत्र निश्चयगर्भ इति विभागो ज्ञेयः ॥ तेन चेति । तदभावेनेत्यर्थः । एवं च विद्युत्संशयनियमनिवृत्तिकारणीभूतदर्शनविषयाभावप्रतियोगित्वेन तेनेत्युक्तमित्यदोषः । ननूगटभट्टादिभिः प्राचीनैर्निश्चयगर्भ एव संशयोऽलंकारत्वेन खीकृतस्तत्कथं निश्चयान्तोऽप्युपन्यस्त इत्यत आह-परं त्विति।आये प्रकृतव्याप्यधर्मोक्त्या प्रकृतनिर्णयो वाच्य एव, द्वितीये त्वप्रकृतव्याप्यधर्माभावमात्रोक्त्या प्रकृतनिर्णयो व्यङ्गय एव, वाच्यापेक्षया च व्यङ्ग्यस्य चमत्कारातिशयजनकत्वमिति