________________
अलंकारकौस्तुभः ।
अस्य भेदद्वयमाह
उक्त विशेषधर्म प्रकृतस्य भवेदनुक्ने च । प्रथमं द्विधा । निश्चयान्तनिश्चयगर्भताभेदात् । यत्र प्रकृतेऽन्यसंशये जाते प्रकृतनिष्ठविशेषधर्मदर्शनेन प्रकृतनिर्णयस्तत्र निश्चयान्तत्वम् ।
यथा. किं तावत्सरसि सरोजमेतदारा
दाहोखिन्मुखमवभासते युवत्याः । . . संशय्य क्षणमथ निश्चिकाय कश्चि
द्विब्बोकैर्बकसहवासिनां परोक्षैः ॥' अत्र विब्बोको भावविशेषोऽचेतने सरोजे नास्तीति मुख्यव्याप्यतया तद्बोधोत्तरं मुखनिश्चये सति तदुत्तरं न चन्द्रत्वादिना संदेहः । त्युक्त्या यशःस्थैर्यमाप्स्यति न वेति संदेहो लभ्यते । स च सादृश्यजन्य एव, असाधारणधर्मदर्शनजन्यविप्रतिपत्तिजन्यसंशयान्यसंशयस्य साधारणधर्मदर्शनजन्यत्वनियमात्। तथा च न्यायसूत्रम्-'समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यानुपलब्ध्यव्यवस्थातो विशेषापेक्षो विमर्षः संशयः' इति । अत्र ह्यसाधारणधर्मदर्शनजन्यः साधारणधर्मदर्शनजन्यो विप्रतिपत्तिजन्यश्चेति संशयस्य त्रैविध्यमेवाभिहितमिति चेत्सत्यम् । सादृश्यपदेन चमत्कारजनकसादृश्यस्य विवक्षितत्वान कोऽपि दोषः । एवं च चमत्कारजनकसंदे. हत्वमेव लक्षणमिति फलितार्थः । संदेहेन सह वर्तते वर्ण्यत्वेनेति ससंदेह इत्यलंकारसंज्ञेयम् । यदाहुः—'साम्यादप्रकृतार्थस्य या धीरनवधारणा । प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स उच्यते ॥' संदेह इत्यप्यस्य संज्ञान्तरम् । “स्यात्स्मृतिभ्रान्तिसंदेहै. स्तदेवालंकृतित्रयम्" ॥ इति चन्द्रालोकादिदर्शनात् । विशेषधर्म इति । उपमानतादात्म्यबुद्धिप्रतिबन्धकेत्यर्थः । स च द्विविधः, उपमेयतावच्छेदकव्याप्यः, उपमानतावच्छेदकव्याप्यश्च । तत्राद्यस्य प्रकृतनिर्णयहेतुत्वात् । तद्दर्शने विशेष्यनिर्णयसत्त्वात्संशयान्तरानुदयः । द्वितीयस्य तु तत्कोटिभानमात्रविरोधितया प्रकृतनिर्णयहेतुत्वाभावादेकसंदेह निवृत्त्यनन्तरं अन्यकोटिकसंशयोत्पत्तिरिति दर्शयन्नाह-प्रथममित्यादि । विशेषधर्मोक्तिविशिष्टसंदेहस्वरूपमित्यर्थः ॥ किं तावदिति । माघे जलविहारवर्णनम् । अत्र इदं कमलं मुखं वेति पुरोवर्ति विशेष्यक: अभेदसंबन्धेन कोटिद्वयप्रकारक: सौन्दर्यातिशयरूपसमानधर्मदर्शनजन्यसंशयः । अत्र विब्बोकस्य कमलेध्वसंभवात् । तस्य नायिकाधर्मत्वेन नायिका निर्णयानन्तरे मुखनिर्णयः ॥ भावविशेष इति । तथा च भगवान् भरत:-'इष्टानामर्थानां प्राप्तावभिमानगर्भसंभूतः । स्त्रीणामनादरकृतो वि