________________
काव्यमाला। इति वाच्यम् । निश्चलत्वनिमित्तकं यन्निःशब्दत्वं ताद्रूप्येणाध्यवसितस्य मौनस्यैव तत्त्वात् । तस्य विश्लेषदुःखसमानाधिकरणत्वात् नूपुरवृत्तित्वाच्च । तस्मात्तद्भिन्नत्वेन प्रमितस्य पदार्थस्य रमणीयतद्वृत्तिधर्मनिमित्तकं तादात्म्येन संभावनम् । धर्मिखरूपोत्प्रेक्षायास्तदभाववत्त्वेन प्रमितस्य पदार्थस्य तत्समानाधिकरणधर्मनिमित्तकं तद्वत्त्वेन संभावनं धर्मखरूपोत्प्रेक्षाया लक्षणमित्याहुः ।
इत्युत्प्रेक्षा। ससंदेहमाह
प्रकृते तदन्यविषया सादृश्यज्ञानजन्या या।
बुद्धिनिश्चयभिन्ना तामाचख्युः ससंदेहम् ॥१॥ उपमेये उपमानविषय[कोटि]कः संशयः ससंदेह इत्यर्थः । भ्रान्तिमदतिव्याप्तिवारणाय निश्चयभिन्नेति । स्थाणुर्न वेत्यादिवारणाय प्रकृते इति । रसानुकूलत्वेन प्रकृतेत्यर्थकम् ।
'अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन् ।
निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥ इत्यादिसंशयनिषेधाय सादृश्येति ॥
धपरत्वं तृतीयाध्यायभाष्यस्य व्यवस्थापयता त्वया क्रियाया उपमेयत्वमाश्रित्य प्रवर्तमानाः पञ्चमाध्यायभाष्यादिग्रन्थाः कथमुपपादनीया इति चेत्सत्यम् ॥ .........
................ निर्णयानामकप्र. स्तुतविशेष्यकाप्रकृतारोपरूपत्वसंगत्या उत्प्रेक्षानन्तरं संदेहालंकारनिरूपणमस्तीत्यभिप्रायेणाह-प्रकृत इति । तत्पदार्थमाह-उपमेयेति । तदन्यपदार्थमाह-उपमानेति । विषयपदार्थमाह-कोटिक इति । निश्चयभिन्नेति । भ्रान्तेश्च निश्चयात्मकतया तद्भिन्नत्वाभावान्नातिव्याप्तिरित्यर्थः । स्थाणुरिति । स्थाणुपुरुषोभयसाधारणोर्ध्वत्वादिरूपसाधारणधर्मज्ञानजन्यतया तत्संशयस्य सादृश्येत्यनेनापि न व्यभिचारवारणमिति भावः । ननु स्थाण्वादेरपि प्रकृतत्वं कुत्राप्यस्त्येवेति कथं तत्पदेन व्यभिचारवारणमित्यत आह-रसेति ॥ सादृश्येतीति । अत्र संशयस्य दुर्जयविजयोद्यमनिबन्धनत्वान्न सादृश्यज्ञानजन्यत्वमिति भावः ॥ ननु यशांसि संशये निमजयामासे
१. इतः परं पाठस्त्रुटितो भवेदिति प्रतीयते.