________________
अलंकारकौस्तुभः ।
१९५ इत्यत्रापि फलोत्प्रेक्षायां वनान्तेषु भालविटप(पाट)नहेतुललाटाक्षरदर्शनमेव नोत्प्रेक्ष्यते, किं तु तदक्षरदर्शनहेतुकत्वग्विषाटनं कण्टकजन्यविपाटने उत्प्रेक्ष्यत इति ॥
अत्र नवीनाः । अभेदेनैवोत्प्रेक्षणमिति नियमे मानाभावः । 'अस्यां मुनीनामपि मोहमूहे-' इत्यादौ भेदेनापि संसर्गेण तदर्शनात् । न च तत्राप्युक्तरीत्याश्रयणेन निर्वाहः शङ्कयः । तादृशनियम एव प्रमाणविरहादेतादृशदुराग्रहस्य निर्मूलत्वात् । एवं 'लिम्पतीव तमोऽङ्गानि' इत्यत्रापि लेपनकर्तृत्वं तमआदिषूत्प्रेक्ष्यम् । अनुकूलव्यापारस्याख्यातार्थस्याश्रयत्वसंबन्धेन प्रथमान्तार्थेऽन्वयात् । 'भावप्रधानमाख्यातम्' इत्यस्य व्यापारार्थकं तदित्यर्थात् । तेन लिम्पतीत्यादौ भेदेनाभेदेन वा तिङन्तार्थस्य प्रथमान्तार्थ एवोत्प्रेक्षणं न तु धात्वर्थस्य खनिगीणे व्यापनादौ ॥
एवम्'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नू पुरमेकमुक्म् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥' इत्यत्रापि निश्चलत्वनिमित्तकनिःशब्दत्वविषये विश्लेषदुःखहेतुकमौनमभेदेन नोत्प्रेक्षते, किं तु मौनहेतुत्वेन नूपुरे विश्लेषदुःखमेव । उत्प्रेक्षायामिवशब्दान्वयिन एवोत्प्रेक्ष्यत्वस्य सर्वसिद्धत्वात् । विषयस्य निगीर्णतया विषयिणो विधेयत्वानुपपत्तेश्च । निःशब्दत्वमौनयोः संभावनानिमित्तभूतधर्मान्तरगवेषणापत्तेश्च । एककालीनत्वादिधर्मस्य च चमत्कारानाधायकत्वेनोपमावदुत्प्रेक्षायामप्यप्रयोजकत्वात् । न च नूपुरविषयमौनोत्प्रेक्षायामपि को धर्म
भर्तृहरिणोक्तम्-'साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्वभावस्तु यस्तस्याः स घनादिनिबन्धनः ॥' ननु तथापि तृतीयाध्यायस्थो 'न वै तिङन्तेन' इति भा. ष्यग्रन्थः कथमुपपादितः । सामान्यधर्माधिकरणत्वविवक्षायामुपमेयभूताया अपि क्रियायास्तदुक्तन्यायेनैव सत्वधर्माश्रयत्वप्रसङ्गादिति चेत् । तर्युपमानोपमेयत्वोभयनिषे. धवादिना त्वयापि पश्चमाध्यायस्थसूत्रभाष्यादिग्रन्थाः कथमुपपादिताः । क्रियाया उपमेयत्वस्य तत्र साक्षादेवाभिहितत्वात् । उपमेयभूताया अपि क्रियायाः सामान्यधर्माधिकरणत्वविवक्षायां खरूपप्रच्यवतादवस्थ्यात् ॥ नन्वेवमपि क्रियाया उपमेयत्वनिषे