________________
१९४
इत्यादावप्युपमायां स्वस्थानादभ्रष्टेनापि कामिलोकेन सादृश्यसंभवातत्पातविशेषणस्य व्यर्थताप्रसङ्गात्संभावनोपयोगादित्यलं पल्लवितेन ॥ अत्र प्राचामयं सिद्धान्तः । सर्वत्र विषये विषयिणोऽभेदेनैव संसर्गेणोत्प्रेक्षणम्, न तु संबन्धान्तरेण । तथा च काव्यप्रकाशे‘संभावनमथोत्प्रेक्षा प्रकृतस्य परेण यत् ।'
ततश्च
काव्यमाला |
दोलायितेन बहुना भवभीतिकम्प्रः कंदर्पलोक इव खात्पतितस्रुटित्वा ॥'
-
'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।'
इत्युदाहृत्य अत्र 'व्यापनादि लेपनादिरूपतया संभावितम्' इति व्याख्यातम् । 'नूनं मुखं चन्द्रः' इत्यादौ नामार्थयोरभेदान्वयात्स्पष्टमेव तथा ॥
न च
‘अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली 1 नानारदाहादिमुखं श्रितोरुर्व्यासो महाभारतसर्गयोग्यः ॥'
इत्यादौ भैम्यां मोहरूपस्य धर्मस्य भेदसंबन्धेनैवोत्प्रेक्षणान्नायं नियमः, इति वाच्यम् । तत्रापि न भैम्यां विषयतासंबन्धेन मुनिनिष्ठमोहस्योत्प्रेक्षा, किंतु मुनिसंबन्धिनि धर्मान्तरे विषयभूतेऽभेदेन मोहस्यैवेति वाच्यत्वात् । संभावनाविषयस्य च निगीर्णत्वात्साध्यवसानतयानुपादानम् ।
एवम् —
'चौरस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥'
रिति पूर्वपक्षे 'ब्राह्मणवदधीते' इत्यादौ ब्राह्मणादिपदानां ब्राह्मणादिवृत्त्यध्ययनादिलक्षणाया गौणत्वेन समाहितं भाष्यकारैः । न ह्यन्यथा सूत्रार्थः संभवति । न च तैलपाकेन ल्यो घृतपाक इत्यादौ क्रियाया अपि तृतीयासमर्थत्वमस्त्येव भोक्तुं पाक इति क्रियायोगनिबन्धनतुमुनादिदर्शनादिति वाच्यम् । उपमानिष्पत्त्यर्थं साधारणधर्माधारत्वविवक्षायां तस्य क्रियारूपत्वाभावात् । तत्र हि तुमुनादयो धातुवाच्यासत्वभूतक्रियापेक्षाः । तृतीयादयस्तु स्वरूपाश्रया न तु क्रियारूपाश्रया इति कैयटेनैव समाहितत्वात् । तथा च
तु