________________
अलंकारकौस्तुभः ।
१९३ च महाभाष्यवचनविरोधः, तेन क्रियाया उपमेयत्वस्यैव निषेधस्याभिमतत्वात् । एवं च'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इत्यत्रेवशब्दोपादानमपि यत्रोपमा न संभवति तत्रोत्प्रेक्षात्वमित्यभिप्रायेणेति । न त्वाख्यातसमभिव्याहृतेवादिस्थले उत्प्रेक्षैवेति नियमाभिप्रायेणेति । यथा'बालेन्दुवक्राणि विकाशभावाद्वभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ इत्यादौ हि उपमाङ्गीकारे अन्यदीयनखक्षतैरपि सादृश्यसंभवेन वसन्तसमागमविशिष्टवनस्थलीसंबन्धित्वेन तद्विशेषणं व्यर्थ स्यात् । संभावनार्थत्वे तु अन्यत्र स्थितानां नखक्षतानां वनस्थलीषु संभावनानुपपत्त्या तनिष्ठत्वं वाच्यम् । तच्च न नायकसंबन्धं विनेति वसन्तेनेत्यादि विशेषणं सार्थकं भवति । एवम्
'यन्मौलिरत्नमुदितासि स एष जम्बू
द्वीपस्त्वदर्थमिलितैर्युवभिर्विभाति । महाभाष्यति । न वै तिङन्तेनोपमानमस्ति' इति प्रागुपन्यस्तेत्यर्थः । उपमेयत्वेति। क्रियानिष्ठोपमानतानिरूपितेति शेषः । अतो न पश्चमाध्यायाकरविरोधः ॥ तत्र हि 'तेन तुल्यं क्रिया चेद्वतिः' इत्यत्र क्रियाया एवोपमेयत्वे वतिरिति व्यवस्थापितम् । नन्वेवमपि न तद्विरोधनिस्तारः, क्रियाया एवोपमानत्वस्यापि तत्र व्यवस्थापि तत्वात् । क्रियेति । प्रकृत्यर्थविशेषणमिति पक्षे प्रत्ययार्थस्य तथात्वलाभः, प्रत्ययार्थविशेषणमिति पक्षे प्रकृत्यर्थस्य च तथात्वलाभः, सामर्थ्यादिति तत्र भाष्यकृद्भिरेव व्याख्यातत्वादिति चेत्, सत्यम् । क्रियाशब्देन सत्वधर्मानापन्नायास्तस्या विवक्षितत्वात् । तथा हि 'तेन तुल्यम्' इति तृतीयासमर्थाद्वतिः । उपमानं क्रियेति सूत्रार्थः । तत्र क्रियायास्तृतीयासमर्थत्वमनुपपन्नं सत्त्ववाचिन एव तृतीयायुत्पत्ते.
२५