________________
१९२
काव्यमाला। प्रतियोगितयान्वयः अत्र तु खाश्रयप्रतियोगितयेति गौरवमिति, तत्तुच्छम् । लक्षणादिकृतगौरवापेक्षया तस्याकिंचित्करत्वात् ॥ किं च संसर्गीशगौरवापेक्षया पदार्थाशगौरवमेव बलवदिति विपरीतं गौरवम् ॥ अथ कृतरुक्तसंबन्धेन सादृश्यान्वये भावनाविशेष्ये संख्यान्वय इति नियमभङ्ग इति चेत् , न । चैत्रो न पचति इत्यादौ तस्यापि स्वीकृतत्वात् । तस्मादाख्यातसमभिव्याहृतेवादिस्थले उपमादुर्वारेति विज्ञैर्विभावनीयम् । न
संसगीकृत्य घटद्भूतलमित्यादिप्रत्ययप्रसङ्गात् । नसमभिव्याहृताख्यातार्थस्थल एवैवं कल्पते इति चेत्, न विरुद्धार्थस्य कल्पयितुमशक्यत्वात् । अन्यत्र तत्प्रकारकयत्संसर्गकयद्विशेष्यकबोधोऽनुभवसिद्धतया न विरुद्धस्तदनुसारेणैव कल्पनोल्लासात् । तद्वैपरीत्ये च लाघवस्याप्रयोजकत्वात् । अभावप्रकारकबोधस्यैव तत्रानुभविकत्वाच्च । वस्तुतः संबन्धभेदेन कार्यकारणभावभेदस्यावश्यकतया समवायसंसर्गककृतिप्रकारकचैत्रादिविशेष्यकबोधार्थमेकः, अभावसंसर्गककृतिप्रकारकचैत्रविशेष्यकबोधार्थ कृत्यभावप्रकारकविशेषणतासंसर्गकचैत्रादिविशेष्यकबोधार्थ चापरः कार्यकारणभावः कल्प्यत इति न लाघवावकाशः । प्रकारकविशेष्यैक्यरक्षणमात्रस्य चा किंचित्करत्वात् । एवं चाख्यातस्यैव कृत्यभावे लक्षणा । नञ्पदं तात्पर्यग्राहकमिति कथं प्रकारकप्रतीत्युपपत्तिरित्यप्यनाशङ्कथम् । कार्यकारणभावभेदस्यावश्यकत्वादिति कृतं बहुना नन्वत्र दृष्टव्युत्पत्तिरक्षणलक्षणागौरवमेव सह्यतामित्यत आह-किं चेति । अन्यत्रोकैतावत्तदर्थानामुक्तरीत्या त्वयाननुभवादत्रैव लक्षणादिकल्पनामपेक्ष्य संसर्गान्तरेण कुप्तपदार्थान्वयस्यैव युक्तत्वादित्यर्थः ॥ भावनाविशेष्य इति । चैत्रः पचतीत्यादौ यत्र कृत्यन्वयस्तत्रैव संख्यान्वय इति व्युत्पत्तिः । तथा चाख्यातार्थसंख्याप्रकारकबोधं प्रतिकृतिविशेष्यार्थकपदजन्योपस्थितिः कारणमिति फलितम् । अत एव 'चैत्रौ पचतः,' 'चैत्राः पचन्ति, इत्यादिप्रयोगनियम उपपद्यते । 'वहतीव तमः' इत्यत्र च कृतेः स्वाश्रयप्रतियोगिकवसंबन्धेन इवार्थे सादृश्ये संख्यायाश्च तमस्यन्वयो न स्यात् । तमसः कृतिविशेष्यत्वविरहादिति भावः । तस्यापीति । भावनाविशेष्ये संख्यान्वय इति नियमभङ्गस्यापीत्यर्थः । न पचतीत्यत्र कृतेरभावान्वयेऽपि संख्यायाश्चैत्रेणैवान्वयाभ्युपगमात् । तथा च भावनाविशेष्ये संख्यान्वय इत्युत्सर्ग एवेति तात्पर्यम् ॥ नन्वेवमपि वहनकृत्याश्रयप्रतियोगिकभेदसामानाधिकरणेत्यादिबोधः पर्यवसितः । तथा च पदार्थावच्छिन्नप्रतियोगिताकसंसगैकदेशप्रतियोगिकप्रतियोगित्वीयसंसर्गतानिरूपितपदार्थीभूतभेदविशेष्यकान्वयबोधः कथं स्यात् । वहिर्न भवतीत्यस्माद्वह्नयवच्छिन्नप्रतियोगिताकबोधानुदयादिति पूर्वमेवोक्तत्वादिति चेत् , सत्यम् । कृत्याश्रये आख्यातस्य लक्षणेत्यत्र दोषाभावात् । त्वया प्रकृतिप्रत्यययोरुभयत्रापि लक्षणास्वीकारेण तथापि लाघवसंभवात्।