________________
अलंकारकौस्तुभः । स्थितिहेतुरिति शरीरम् ॥ अपि च । इवार्थसंभावनाया विषयतासंबन्धेन व्यापनान्वयोक्तौ धात्वर्थनामार्थयोः साक्षा देनान्वयस्याव्युत्पन्नतया तदतिक्रमः । न च निपातातिरिक्तनामार्थस्थल एव सा व्युत्पत्तिः । 'न कलनं भक्षयेत्' इत्यत्र नार्थस्य विशेषसंबन्धेन धात्वर्थान्वयस्वीकारादिति वाच्यम् । 'चैत्रो न पचति' इत्यादौ कृतेरप्यभावान्वयदर्शनेन कृतेः प्रथमान्तपदोपस्थाप्य एवान्वय इति नियमस्याप्यवश्यं संकोचनीयतयोक्तरीत्या कृतेरपीवार्थसादृश्यान्वये बाधकाभावात् । यत्तु-अन्यत्र सादृश्ये
प्रत्ययार्थप्रकारकबोधस्याप्यभावाच्च । ततोऽपि न तत्समाधानमित्यभिप्रायेण प्रकृत्यर्थप्रकारकेत्युक्तम् । अत एव उक्तव्युत्पत्तिसंकोचादेव कर्तृप्रकारकभावनाविशेष्यकवोध इति समुद्घोषो वैयाकरणानाम् । ननु प्रत्ययार्थनिष्ठविशेष्यतानिरूपितविशेषणतासंबन्धेन शाब्दबुद्धौ प्रकृतिजन्योपस्थितेः कारणतेत्यस्य आख्यातार्थकृतिवर्तमानत्वयोः परस्परान्वयाभ्युपगमादिना पूर्वमेव निराकृतत्वान्नायं दोष इत्यपरितोषादाह-अपि चेति । तण्डुलं पचतीत्यादौ तण्डुलादेर्विभक्त्यर्थान्वयद्वारा धात्वर्थान्वयो न भवत्येवेत्यत आह-साक्षादिति । स्तोकं पचतीत्यादौ स्तोकस्याभेदसंबन्धेन साक्षादेव धात्वर्थान्वयदर्शनादाह-भेदेनेति । अभेदातिरिक्तसंबन्धेनेत्यर्थः । तथा च वहनरूपधात्वर्थस्य प्रकारत्वसंबन्धेन इवार्थसंभावनायामन्वयो युक्त इत्यर्थः । निपातेति । तदतिरिक्तत्वं नानो विशेषणम् । न कलामिति । भक्षयेदित्यत्र विधिप्रत्ययस्य कृतिसाध्यत्वेष्टसाधनत्वबलवदनिष्टाननुबन्धित्वत्रितयवाचकतया कलञ्जभक्षणे इष्टसाधनत्वकृतिसाध्यत्वयोः सत्त्वेन तनिषेधस्य बाधाद्बोधयितुमशक्यत्वाद्बलवदनिष्टाननुबन्धि. त्वमेव प्रतियोगित्वसंबन्धेन नञर्थाभावेऽन्वेति । स च विशेषणतया भक्षणे। तथा च कलञ्जभक्षणं बलवदनिष्टाननुबन्धित्वाभाववदिति । नञर्थप्रकारकतानिरूपितविशेषणताविशेषसंसर्गावच्छिन्नधात्वर्थनिष्ठविशेष्यताको बोध इति निपातार्थधात्वर्थयोः साक्षातेंदान्वयोऽपि भवत्येवेत्यर्थः ॥ चैत्र इति । न पचतीत्यत्राख्यातार्थकृतेरभावे, तस्य चैत्रेऽन्वयः । पाकानुकूलकृत्यभाववांश्चैत्र इति कृतिप्रकारतानिरूपितप्रतियोगित्वनिष्ठसांसर्गिकविषयतानिरूपिताभावनिष्ठविशेष्यताख्यप्रकारतानिरूपितविशेषणतानिष्ठसांसर्गिकविषयतानिरूपितचैत्रत्वावच्छिन्नविशेष्यताकबोधस्य तत्रानुभवसिद्धत्वादित्यर्थः ॥ यत्तु तत्रापि न कृतेरभावान्वयः । अभावसंबन्धेन कृतेरेव साक्षात्प्रथमान्तपदोपस्थाप्य चैत्रेऽन्वयः । नञ्पदं च तात्पर्यग्राहकम् । अतो नाख्यातार्थकृतिप्रकारकबोधं प्रति प्रथमान्तपदजन्योपस्थितिः कारणमित्यस्य संकोच इति ॥ तन्न, प्रतियोग्यन्वये अभावस्य संसर्गत्वे मानाभावात् । प्रतियोगितदभावयोर्विरुद्धत्वेन प्रतियोगिप्रकारतायां अभावस्य संसर्गत्वेन भानस्यादर्शनादसंभवाच । अन्यथा घटाभाववत्यपि भूतले अभावं