________________
१९०
काव्यमाला।
इति । 'भिन्नजातीयानां च क्रियाणां सादृश्यं नास्ति भुत इव गच्छतीति-' इति ॥ तथा चैतद्भाष्यविरोध इत्याचार्यदण्डिनोऽभिप्रायः । अतोऽत्र संभावनैव इवार्थ इति सिद्धम् । तदयं निष्कर्षः—'वहतीव तमः' इत्यत्र धातोर्वहनक्रियायां शक्तिः, अधोदेशव्यापने लक्षणा । आख्याताओं लक्षणया विषयत्वं संभावनमिवार्थः । तथा च–'तमःकर्तृकाधोदेशव्यापनं वहनप्रकारकसंभावनाविषयः' इति बोधः ॥ यद्वा 'वहनप्रकारकसंभावनाविषयाधोदेशव्यापनाश्रयस्तमः' इति बोधः । प्रथमबोधे इवार्थसंभावनाया विशेष्यतया आख्यातार्थे तमसश्च कर्तृत्वसंबन्धेन धातुलक्ष्याधोदेशव्यापने धातुशक्यवहनस्य प्रकारतासंबन्धेन संभावनायामन्वयः । द्वितीये तु शक्यवहनस्य प्रकारतया संभावनायां तस्या निरूपितत्वेन संबन्धेन विषयत्वे तस्य लक्ष्येऽधोदेशव्यापने तस्याश्रयतया तमसि इति विशेषः । इदमिहावधेयम् । एवमपि व्युत्पत्तिभङ्गसाम्ये किमर्थमुपमैवेयं नोक्ता । तथा हि । लिपधातोर्लेपने शक्तिरधोदेशव्यापने लक्षणेति युगपत्तिद्वयनिबन्धनो दोषः । ततो लेपनक्रियाया इवार्थसंभावनेऽन्वय इति प्रत्ययानां प्रकृत्यर्थान्वयनियमव्युत्पत्तिभङ्गः । तस्य हि प्रकृत्यर्थप्रकारकबोधे प्रत्ययजन्योप
परस्परवृत्तिधर्माभाववत्वादित्यत आह-भिन्नेति । क्रियात्वादिना सादृश्यं तु अप्रयोजकमेवेति भावः ॥ उक्तग्रन्थाभिप्रायेण काव्यादर्शकारिकाव्याख्यानमुपसंहरतितथा चेति । वैयाकरणमतेन क्रियाविशेष्यकबोधमाह-तथा चेत्यादिना । नैयायिकरीत्या प्रथमान्तविशेष्यकबोधमाह-यद्वेति । कर्तृत्वसंबन्धेनेति । ननु वैयाकरणमते कर्ता आख्यातार्थ एवेति तस्य पदार्थत्वात्कथं संसर्गत्वमिति चेत् । सत्यम् । आख्यातस्य प्रकृते विषयलक्षणाया उक्तत्वात् । कर्तृत्वस्य संसप्या समुल्ले. खात् । युगपत्तिद्वयखीकारे तु कर्ता व्याख्यातार्थ एव व्याख्येयः ॥ पिदिति । एकस्यैव पदस्य युगपच्छक्यलक्ष्योभयार्थबोधकतायाः प्राचीनैरनभ्यु .मादित्यर्थः । तदङ्गीकर्तृमणिकारादिमते तु दोषान्तरमाह-तत इति । प्रत यानामिति । 'प्रकृतिप्रत्ययौ स्वार्थ सह ब्रूतः' इति कात्यायनवार्तिकात् । तस्य हीति । यद्यपि प्रकृत्यर्थप्रकारकबोधं प्रति प्रकृतिजन्योपस्थितिहेतुरित्यपि तदर्थः । अन्यथा वैयाकरणानां आख्यातार्थस्य कर्तुर्धात्वर्थभावनायां विशेषणत्वेनान्वयानुपपत्तेः । प्रकृतिप्रत्ययान्यतरार्थप्रकारकशाब्दबोधे तदन्यतरजन्योपस्थितेहेतुत्वमिति तदर्थपर्यवसानात् । तथापि तयोः प्रत्ययार्थः प्राधान्येनेत्युक्तवार्तिकशेषदर्शनात् । प्रकृते प्रकृत्यर्थविशेष्यक