________________
अलंकारकौस्तुभः। १९ दनिष्पन्नरूपत्वादिदं तदिति परामर्षगोचरवस्तुविषयत्वादुपमानोपमेयभावस्येदं तदिति परामर्षाभावादिति भावः । इवशब्दप्रयोगे तु अध्यारोपस्तु विद्यते । 'रोदितीव गायति नृत्यतीव गच्छति देवदत्तः' इति । परिपूर्णेन च न्यूनस्योपमा भवति । क्रिया च सर्वखाश्रये समासेतिन्यूनत्वासंभवस्तस्याम् । तदुक्तम्
'येनैव हेतुन हंसः पततीत्यभिधीयते । आतौ तर माप्तत्वादुपमार्थो न विद्यते ॥'
भुक्त्वा व्रजतीति क्त्वाप्रत्ययस्थले शुद्धा क्रिया भासते' इति शाब्दिकसिद्धान्तविरोधः। भुक्त्वेत्यत्र क्रियान्तराकाङ्क्षासत्त्वात् । तस्मात् क्रियान्तराकाङ्क्षत्वतदनाकाङ्क्षत्वयोः समभिव्याहारविशेष एव नियामक इत्याहुः । अनिष्पन्नेति । सिद्धस्यैव साधनत्वादित्यर्थः । इदं तदिति परामर्षाभावादिति । सिद्ध स्यैव एवंविधबोधविषयत्वान्न ह्ययं पचत्यपचतीत्यादौ यथा देवदत्तादीनां इदमादिभिः परामर्षः, तथा देवदत्त इदमित्यादिप्रयोगे इदमादिभिः पचतीत्यादिक्रियापरामर्षों दृश्यत इत्यर्थः । एतदभावेऽपि कुतो नोपमानतेत्यत आह-इदं तदिति । एतादृशज्ञानविषयभूतं यद्वस्तु सिद्धखरूपं तद्विषयक एवोपमानोपमेयभाव इति भावः। ननु किमत्र नियामकमिति चेत् । उच्यतेउपमायां तावत्साधारणधर्म आवश्यकः । तद्यतिरेके तत्स्वरूपस्यैवानुल्लासात् । धर्मस्य चोपमानवृत्तित्वं स्वीकार्यम् , न चासिद्धस्य धर्माधिकरणत्वसंभवः । एवं च यदि धर्माधिकरणत्वं तत्र खीक्रियते तदा सिद्धत्वापत्त्या साध्यत्वनियमभङ्गापत्तिः । यदि तु न तदङ्गीकारस्तदोपमानिमित्तसामान्यधर्माभावात्सुतरां न सेति कैयट एव पञ्चमाध्याये स्पष्टम् । न चासिद्धेऽपि प्रागभावप्रतियोगित्वादिधर्माश्रयत्वमस्त्येवेति वाच्यम् । तथाप्युपमाप्रयोजकधर्मस्य तत्र सत्त्वे मानाभावादिति भावः ॥ एवं प्रियायामुपमानत्वासंभवमुक्त्वा उपमेयत्वासंभवमाह-परिपूर्णेनेति । तद्धर्मवत्तया प्रसिद्धेनेत्यर्थः । न्यूनस्यति । उपमानवृत्तिधर्मापेक्षापकर्षाश्रयतजातीयधर्मवत इत्यर्थः । समासेति । क्रियान्तरापेक्षया न्यूनत्वविरहविशिष्टेत्यर्थः । न्यूनत्वेति । उपमानत्वाभिमतवृत्तिधर्मापेक्षापकर्षाभाववत्त्वादित्यर्थः । अत्र भर्तृहरिकारिकां प्रमाणयति-तदुक्तमिति । येनेति । पतनक्रियारूपेणेत्यर्थः । आताविति । 'शरातिरातिराटिश्च बलाका विषकण्ठिका' इत्यमरः । तस्य पतनक्रियारूपस्य । समाप्तत्वात् न्यूनत्वाभावात् । हंसबलाकोभयसंबन्धिपतनस्याधःसंयोगजनकत्वसाम्येन तत्रान्योन्यापेक्षयोत्कर्षापकर्षाभावादित्यर्थः । न विद्यत इति । तद्वृत्तिधर्माधिकधर्मवत्प्रतियोगिकसादृश्यवर्णनेनैव न्यूनधर्मोत्कर्षलाभादत्र तदभावादिति भावः । ननु तर्हि भिन्नानामेवाक्रियाणां तदस्तु