________________
काव्यमाला । तस्मादुपमानस्य दुर्लभतया नात्रोपमा संभवति ॥ तदुक्तम्
'केषांचिदुपमाभ्रान्तिरिवश्रुत्येह जायते ।
नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम् ॥ तथाहि । 'धातोः कर्मणः-' इति सूत्रे 'अश्मा लुलुठिषते, कूलं पिपतिषति' इत्यत्राचेतनस्य पाषाणादेरिच्छाया असंभवात्सन्प्रत्ययो न स्यादिति विचारे लुलुठिषत इव लुलुठिषते इति प्रयोगसमाधानमाशङ्कय भाष्यकारेणोक्तम्-'न वै तिङन्तेनोपमानमस्ति' इति । व्याख्यातं च कैयटेन–'तिङन्तेनेति तिङन्तार्थेनेत्यर्थः । क्रियायाः साध्यैकस्वभावत्वा
HTHHTHHTHE HTHHTHHTHHTHE il Piemonte
स्मात्सर्वमतेऽपि एकस्यैव लेपनस्य धर्मधर्मिभावोऽनुपपन्न एवेत्यर्थः । नन्वेवमप्यनुपात्तधर्मनिमित्तकमेव सादृश्यमस्तु न झुपमायां सर्वत्र धर्मोपादाननियमः प्रामाणिकः । धर्मलुप्तोपमोच्छेदप्रसङ्गादिति चेत्सत्यम् । ययोः सादृश्यमप्रसिद्धं तत्र धर्मोपादानस्यावश्यकत्वात् । युत्तयन्तरस्याप्यनन्तरमेव वाच्यत्वात् । तदुक्तमिति । आचार्यदण्डिनेति शेषः । भ्रान्तिकारणमाह-इव श्रुत्येति । तद्रूपसमानधर्मदर्शनादित्यर्थः । भ्रा. न्तित्वे प्रमाणमाह-नोपमानमिति। उक्तवचनस्य निष्प्रमाणतानिरासाय । आप्तेति। यथार्थदीत्यर्थः । इदमेव दर्शयन्व्याचष्टे-अस्यार्थ इति । असंभवादिति । इच्छायाश्चेतनामात्रधर्मतया समवायेनान्यत्रानुपपत्तेरित्यर्थः । न स्यादिति । सन्प्र. कृत्यर्थविषयकेच्छायामेव सन्प्रत्ययविधानादित्यर्थः । इति विचारे इति । तदर्थम् 'आशङ्कायां सन्वाच्यः' इति वार्तिकमारभ्यमिति प्रसङ्ग इत्यर्थः । लुलुठिषत इवेति । यथा लुठनेच्छावतोऽवयवशैथिल्यादिकं भवति तथा तस्यापि सत्त्वादित्यर्थः ॥ वाचनिकत्वमात्रनिरासाय-व्याख्यातं चेति । तिङन्तत्वस्य शब्दमात्रधर्मत्वादाह-तिङन्तार्थेनेति । उपमानाभावे हेतुमाह-क्रियाया इति । तिङन्तपदोपस्थाप्याया इत्यर्थः । पाक इत्यादी सत्त्वधर्मापन्नतद्वोधात् । सिद्धत्वप्रतीत्यविशेषेऽपि तादृशप्रतीत्यभावात् । उक्तं हि भट्टै:-'यादृशी भावनाख्याते धात्वर्थश्चापि यादृशः । नासौ तेनैव रूपेण कथ्यतेऽन्यैः पदैः क्वचित् ॥' क्रिया च फलानुकूलतादृशव्यापारसमूहः । तदाह-'गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥' साध्यैकेति । सिद्धरूपेणोपस्थितिविरहनियमादित्यर्थः । साध्यत्वं च क्रियान्तराकालानुत्थापकतावच्छेदकरूपवत्त्वमिति वैयाकरणाः पचतीत्युक्ते क्रियान्तराकालानुदयात् । पाक इत्युक्ते च क्रियान्तराकाङ्क्षाभ्युदयात् । नैयायिकास्तु ‘एवं सति
१. 'क्रम' क.