________________
अलंकारकौस्तुभः ।
१८७ संसर्गकोटिप्रविष्टतया तस्यापदार्थत्वात् , न । चैतादृशस्थले समभिव्याहृतपदार्थाश्रयप्रतियोगिक एवान्योन्याभावो व्युत्पत्तिवैचित्र्याद्भासते इति वाच्यम् । गौरवप्रसङ्गात् ॥
ननु लेपनमेवोपमानमस्त्विति चेत् , न। लेपनक्रियातमसोः साधारणधर्माभावात् लेपनस्यैव तद्धर्मत्वासंभवात् धर्मधर्मिभावस्य भेदनियतत्वात् ॥ तदिदमुक्तम्
'यदि लेपनमेवेष्टं लिम्पति म कोऽपरः ।।
स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते ॥ दीनां परस्परान्वये पूर्वोक्तप्रकारेण सतीत्यर्थः । अपदार्थत्वादिति । कृतिभेदयोरेव पदार्थतया कृतेः प्रतियोगितया भेदान्वयसंभवेऽपि आश्रयत्वस्य तत्र भानासंभवात् । खाश्रयप्रतियोगित्वं च नैतादृशस्थले संसर्गतया कुप्त इत्याह-गौरवेति । न चाख्यातस्यैव कृत्याश्रये लक्षणा गौरवान्मानाभावाचेति भावः । तस्मात्स्थितमेतत्कृते: खाश्रयप्रतियोगिकत्वेन भेदान्वयमङ्गीकृत्य न कृत्याश्रयसादृश्यलाभसंभवः । पदार्थप्रतियोगितावच्छेदकीकृत्य संसर्गाशप्रविष्टपदार्थप्रतियोगिकपदार्थीभूतविशेष्यकबोधस्या. व्युत्पत्तेः । पर्वते वह्निर्भवतीत्यस्माद्वह्निनिष्ठप्रतियोगित्वावगाहिभेदविशेष्यकबोधस्यैवोदयात् । अन्यथा लक्षणामन्तरेणापि कदाचिद्वहिं प्रतियोगितावच्छेदकीकृत्यापि तस्माद्वह्निमान भवतीत्यस्मादिव शाब्दबोधप्रसङ्गात् ॥ अस्तु तर्हि धात्वर्थ एवोपमानमिति शङ्कते-नन्विति । लेपनमेवेति । 'लिम्पतीव तमोऽङ्गानि' इत्युदाहृताभिप्रायेणेदम् । एकस्यैव धर्मधर्मिभावः कुतो न स्यादित्याशङ्कयाह-धर्मेति । तदि. दमुक्तमिति । आचार्यदण्डिनेति शेषः । दृष्टमित्यनन्तरं पूर्वमुपमानमिति शेषः । लिम्पन्तीति धातुनिर्देशे रितपू तस्य लक्षणयार्थपरत्वं यदुपास्तिम्' इत्यादिवत् धर्मभूतो लेपपदार्थस्तदा को वा स्यात्तस्योपमानत्वेन धर्मत्वासंभवादिति भावः । ननु भेदाभेदवादिनो भेदविरहेऽपि धर्मधर्मीभावमङ्गीकुर्वन्तीत्यत आह-स एवेति । वस्तुतस्तु तन्मतेऽपि भिन्नप्रकारोपस्थितावेव धर्मधर्मिभावः । नीलो घट इत्यादिवत् भेदमादाय न पौनरुक्तयम् , अभेदमादाय सामानाधिकरण्यमिति तत्सिद्धान्तात् । अत एवं कार्यादिस्थलेऽप्यन्यप्रकारेणैव भेदाभ्युपगमः । तदुक्तं भामत्याम्-'कार्यरूपेण नानात्वमभेदः कारणात्मना । हाटकाद्यात्मना भेदः कुण्डलाद्यात्मना भिदा ॥' इति । त.
१. 'भाषसे' क.
१. 'स्वर्गापवर्गयोरिमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥' इत्युदयनाचार्यैरुक्तम्.