________________
१८६
अन्याविशेषणी भूतप्रथमान्तपदजन्योपस्थितेः कारणतया इवार्थे सादृश्ये उक्तसंबन्धेन कृतेरन्वयासंभवात् । न च चैत्रो न पचतीत्यत्र कृतेरपि प्रतियोगितासंबन्धेन नञर्थेऽभावेऽन्वयदर्शनादव्ययस्थले तादृशकार्यकारणभावसंकोचावश्यकत्वेन प्रकृतेऽपि निरुक्तसंसर्गेणेवार्थे सादृश्ये कृतेरन्वयः स्यादेवेति वाच्यम् । इवपदसमभिव्याहृतपदार्थस्य प्रतियोगित्वसंबन्धेनैवान्वयस्य व्युत्पन्नतया प्रकृते स्वाश्रयप्रतियोगित्वसंबन्धेनान्वयानौचित्यात् । सादृश्यप्रतियोगिनियतान्वयित्वमिवशब्दस्येति सिद्धान्तभङ्गप्रसङ्गाच्च । किं चेत्यादावुक्तरीत्या वहनकृत्याश्रयेत्यादिरेव बोधः स्यात् । न चेष्टापत्तिः । वहनकर्तृसादृश्यस्यैव विवक्षितत्वात् । न च वहनकृत्याश्रयप्रतियोगिकान्योन्याभावेत्यादिरेव बोधोऽस्त्विति वाच्यम् । आश्रयत्वस्य
काव्यमाला |
विशेषणीभूतेति । यथा पचतीत्यत्र कृतेः तादृशचैत्रेऽन्वयः । 'गज इव चैत्रो गच्छति' इत्यत्र गजस्यापि प्रथमान्तपदोपस्थाप्यतया तत्र कृत्यन्वयवारणाय, अन्याविशेषणेति । गजस्य तु प्रतियोगितया इवार्थसादृश्ये विशेषणीभूतत्वान्न तदापत्तिः । स्थीयतेत्यादिभावार्थलकारे धात्वर्थस्यान्याविशेषणत्वात्तत्र तदन्वयवारणाय प्रथमान्तेति । ननु कृतिप्रकारकबोधत्वस्य कार्यतावच्छेदकत्वे रथो गच्छतीत्यत्र व्यापारलक्ष
I
तस्य रथान्वयो न स्यात् । न च कृतिपदमाख्यातार्थमात्रपरमिति वाच्यम् । वर्त - मानत्वादेरपि चैत्रादावेवान्वयप्रसङ्गात् । एवमन्यत्रापीति चेत् न । तदतिरिक्ताख्यातार्थस्यैव कृतीत्यनेन विवक्षणीयत्वादिति ॥ इवार्थ इति । एतेन प्रथमान्तपदानुपस्थाप्यत्वसूचनम् । अभाव इति । चैत्रः कृत्यभाववानिति बोधात् कृतेरभावे तस्य चैत्रेऽन्वयादित्यर्थः । संकोचेति । यत्रार्थे कृतेः प्रकास्त्वेनान्वयोऽनुभवसिद्धस्तत्र तदुपस्थितेर्विशेष्य हेतुत्वकल्पनादित्यर्थः । इवपदेति । इवपदार्थ इत्यर्थः । पदार्थ - स्येति । इवपदार्थविशेषणतापन्नस्येत्यर्थः । अनौचित्यादिति । संबन्धभेदेन कार्यI कारणभावभेदात्तत्कल्पने गौरवादिति भावः । न चाव्ययेभ्यः प्रथमाविभक्ति रेवोत्पद्यत इति पक्षस्यैव महाभाष्ये सिद्धान्तितत्वात् तस्या 'अव्ययादाप्सुपः' इत्यनेन लोपे सादृश्यस्यापि प्रथमान्तपदजन्योपस्थितिरस्त्येवेति वाच्यम् । तथापि तस्य प्रतियोगितया तम:पदार्थादौ विशेषणतापन्नत्वेन अन्याविशेषणीभूतत्वाभावात् ॥ ननु संबन्धभेदेऽपि प्रकृति प्रकारतानिरूपितविशेष्यताया निपातार्थे कल्पनान्न तथा गौरवमित्यत आहसादृश्येति । कृतेः सादृश्यप्रतियोगित्वस्यापि प्रकृते विरहादिति भावः ॥ ननु कथंचिदत्र कृतेरपि तथात्वमस्त्येवेत्यत आह- किं चेति । उक्तेति । भेदादीनामिवा