________________
अलंकारकौस्तुभः ।
१८५ सदृशा वहनक्रिया' इति बोधोऽस्त्विति वाच्यम् । तन्मते धात्वर्थस्याख्यातार्थे प्रकारतयान्वयाभावात् । आख्यातार्थकर्तृप्रकारकबोधं प्रति धातुजन्योपस्थितिः कारणमिति तत्कार्यकारणभावात् । अत एव कर्तुः सादृश्यान्वयोऽपि निरस्तः । अत्रैव भिन्नकार्यकारणभावकल्पने तु गौरवं प्रमाणाभावश्च । अथ नैयायिकमते कृतिराख्यातार्थः तस्याश्च खाश्रयप्रतियोगिकत्वसंबन्धेन सादृश्येऽन्वयोऽस्तु । तथा च–'वहनकृत्याश्रयप्रतियोगिकसादृश्यवत्तमः' इति बोध इति चेन्न । तन्मते आख्यातार्थप्रकारकबोधं प्रति
दूषणमाह-तन्मत इति । अन्वयाभावादिति । उक्तकार्यकारणभावबलेन आख्यातार्थप्रकारकधात्वर्थविशेष्यकबोधत्वस्यैव कार्यतावच्छेदकत्वात् । वहनस्य कर्बन्वयं निरस्य कर्तुः सादृश्यान्वयमप्युक्तरीत्या प्रत्याचष्टे-अत एवेति । नन्विवसमभिव्याहारे धात्वर्थप्रकारकबोधे आख्यातजन्यकर्तृपस्थितेराख्यातार्थकर्तृप्रकारकबोधे च, इवपदजन्यसादृश्योपस्थितेर्हेतुत्वं कल्पनीयम् । सामान्यकार्यकारणभाववलेन च आख्यातार्थकर्तुर्वहनादिधात्वर्थेऽन्वयः । अत उक्तबोधसिद्धिरित्यत आह-अत्रैवेति । प्रामाणिकत्वे गौरवमपि सह्येतेत्याशङ्कयाह-प्रमाणेति । इदं च सर्व आख्यातार्थस्यैव कर्तुरुभयथान्वय इति पक्षमधिकृत्योक्तम् । यदि तु कर्तृसादृश्यमेव लक्षणया इवपदार्थ इति द्वितीयः पक्ष आशङ्कयते, तत्रेदं वक्तव्यम् । एवमपि वहनस्य धात्वर्थस्य इवाथैकदेशे कर्तरि विशेषणतया, आख्यातार्थकर्तरि च विशेष्यतयेत्येकपदार्थस्य वारद्वयमन्वयबोधापत्तिः । यदि तु समभिव्याहृतधात्वर्थकर्तृसादृश्यमेव लक्षणया इवपदार्थ इत्युच्यते । तदोपमानस्यापि इवपदार्थत्वापत्तिः । न चेष्टापत्तिः । तस्य इवपदार्थबहिर्भावनियमदर्शनात् । एतेन कर्तृसादृश्य इवार्थत्वमपि निरस्तम् । अपि च किं धातुर्वहनपरत्वे आख्यातं च कर्तृपरत्वे इवपदस्य तात्पर्यग्राहकम् , उत धातुरेव विशिष्टवहनकर्तृपरत्वे नाद्यः । विशेषणकलितयोरेव वहनकोंढेधापत्तेः । न च प्रत्येकोपस्थितौ विशिष्टमन्वयबलमलभ्यमिति वाच्यम् । तथापि वहने कर्तरि च इवपदस्य लक्षणा, सादृश्ये च शक्तिरिति वृत्तिद्वयविरोधापत्तेः । तस्य दोषत्वानभ्युपगमेऽपि लक्षणाद्वयगौरवात् । न द्वितीयः, आख्यातमादाय विनिगमनाविरहात् । न च वहतीत्येतद्विशिष्टमेव वहनकर्तृपरत्वे तात्पर्यग्राहकमिति वाच्यम् । एकस्मिन्पदे तात्पर्यग्राहकत्वखार्थवाचकत्वोभयकल्पने गौरवात् । वहतीत्यस्य यत्प्रकारकयद्विशेष्यकबोधजनकत्वं तादृशार्थ एव तात्पर्यग्राहकत्वसंभवेन विपरीतान्वितार्थे तात्पर्यग्राहकत्वासंभवाच्चेति संक्षेपः ॥ प्रकारा. न्तरेण शङ्कते-अथेति । कृतेरेव प्रतियोगित्वेन सादृश्यान्वये विवक्षितं कर्तृसादृश्यं न सिद्ध्ये दित्यत आश्रयत्वमपि संसर्गकोटौ निवेश्याह-कृत्याश्रयेति । अन्या
२४