________________
१८४
काव्यमाला। शेषणस्यान्यत्रान्वयायोगात् । तदेतदुक्तमाचार्यदण्डिना
'कर्ता यापमानं स्यान्न्यग्भूतोऽसौ क्रियापदे ।
खक्रियासाधनव्यग्रो नालमन्यद्यपेक्षितुम् ॥' न च यथा पृथिव्यामेव गन्ध इत्यादौ सप्तम्यर्थविशेषणस्यापि पृथिव्यादेरेवकारार्थेऽन्योन्याभावेऽन्वयाय व्युत्पत्तिवैचित्र्येण पृथिव्यादेः सप्तम्यर्थे एवकारार्थे च युगपदेवान्वयः । यद्वा एवकारस्य समभिव्याहृतपदार्थतावच्छेदकावच्छिन्नान्यत्त्वबोधकत्वस्वीकारेण पृथिवीत्वावच्छिन्नान्यत्वबोधकत्वमिति । स्वीक्रियते। तदा आख्यातार्थस्य कर्तुर्भावनायां सादृश्ये चान्वयः। यद्वा इवपदस्य कर्तृप्रतियोगिकसादृश्यपरत्वमिति नानुपपत्तिरिति वाच्यम् । उक्तरीत्या कर्तुः सादृश्यविशेषणत्वेऽपि 'वहनकर्तृसदृशं तमः' इति बोधासंभवात् । वैयाकरणानां भावनाविशेष्यकबोधाभ्युपगमात् । न च 'वहनकर्तृतमः
एकत्र जनितान्वयबोधत्वेन निराकाङ्क्षत्वादिति भावः । उक्तार्थे प्राचीनसंमतिमाहतदेतदिति । न्यग्भूत इति । विशेषणतामापन्न इत्यर्थः । क्रियापद इति । क्रियापदार्थे भावनायामित्यर्थः । स्वक्रियासाधनव्यग्र इति । खविशेष्यभूतक्रिया. न्वयेन चरितार्थतयान्यत्रान्वयानाकाङ्क्ष इत्यर्थः । अन्यत्सादृश्यादिपदार्थ व्यपेक्षितुं खप्रकारकान्वयबोधे विशेष्यतामापादयितुं न समर्थ इत्यर्थः । अन्वयायेति । पृथिव्यन्यसमवेतत्वाभावस्य तत्र गन्धे ग्राह्यत्वादित्यर्थः । व्युत्पत्तिवैचित्र्येति । उभयान्वयाकासावशेनेत्यर्थः । युगपदिति । क्रमेणान्वये तु पूर्वान्वयेनैव निराकाङ्क्षतया द्वितीयान्वयो न स्यात् । अत एव भुक्त्वा व्रजतीत्यत्र भोजनकर्ता भोजनानन्तरव्रजनकृतिमानिति 'विशेष्ये विशेषणम्' इति न्यायेन युगपदेव भोजनस्यान्वय इति द्रव्योपायविवरणेऽप्यङ्गीकृतम्। ननु प्रकृत्यर्थस्य प्रत्ययार्थेनैव समुत्थिताकाङ्क्षत्वात्प्रथमं तत्रैवान्वयेन भवितव्य मित्यत आह-यद्वेति । तथा च न तत्र एकस्यैव पृथिवीपदार्थस्य उभयत्रान्वयः। किंतु तस्य सप्तम्यर्थ एव । समभिव्याहारव्युत्पत्त्या च पृथिवीत्वावच्छिन्नप्रतियोगिताकभेद एव एवकारार्थ इत्यर्थः । वैयाकरणानामिति । मत इति शेषः । बोधाभ्युपगमादिति । धात्वर्थस्य वहनस्य वक्ष्यमाणयुक्त्या कर्तृविशेषणत्वेनान्वयायोगाच्चेत्यपि द्रष्टव्यम् । किंच इवपदस्य कर्तृविशिष्टसादृश्यपरत्वे आख्यातार्थकर्तुरनन्वयापत्तिः। एतद्दोषपरिहारार्थमेवाह-न चेति । तथा च क्रियाविशेष्यकत्वस्याख्यातार्थकञन्व. यस्य च रक्षणमिति भावः । आख्यातार्थकर्तरि धात्वर्थस्य कर्तुश्च सादृश्येऽन्वय इत्यत्र