________________
अलंकारकौस्तुभः । तिर्यक्संयोगप्रतिबन्धकत्वसाधर्म्यण नोदनत्वेनोर्ध्वदेशव्यापित्वे प्रकृते शिरोनमनहेतुत्वसाधर्म्यण गुरुकार्यमानत्वेन संभावनम् ॥ एवम्
'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।' इत्यादावपि बोध्यम् । नन्वियमुपमैव कुतो न भवति इवपदस्य साहश्यार्थकत्वे बाधकाभावात् । यत्तु-उपमायामिवेन नित्यसमासानुशासनात्प्रकृते समासस्यासंभवात् 'नाम्नां समासो युक्तार्थः' इत्युक्तेराख्यातस्य नामत्वाभावात् । अतोऽत्र न सादृश्यमिवार्थ इति । तच्चिन्त्यम् । इवेन सह समासस्य नित्यत्वाभावस्य उपमाप्रकरण एव दर्शितत्वात् । अन्यथा इवपदस्य संभावनापरत्वेऽपि समासानुपपत्तेः । न हि इवेन समासः सादृश्य एवेत्यत्र प्रमाणमस्ति । 'इवेन समासः' इति सामान्यत एवोक्तेः ॥ ___ अथ यत्र समासप्राप्तिस्तत्रैव नियमः आख्यातेन सह तु समासप्रसङ्ग एव नास्तीति विनैव समासमयं प्रयोग इति चेत् । तर्हि सादृश्यार्थतायामपि समासाप्रसङ्गेन विनैव समासमिवपदप्रयोगे बाधकाभावादिति चेत् । मैवम् । उपमानाभावस्यैवोपमाबाधकत्वात् । तथा हि । किमत्रोपमानम् । न तावत्कर्ता, वैयाकरणमते आख्यातार्थस्य कर्तुर्भावनायां विशेषणीभूतत्वेन तस्येवार्थे सादृश्ये स्वप्रतियोगिकत्वसंबन्धेनान्वयासंभवात् । अन्यविस्थितस्तमोनिवहः ॥' सेतुकाव्ये तमोवर्णनम् । प्रसिद्धोदाहरणमपि तद्विचारसौकर्याय प्रदर्शयति–एवं लिम्पन्तीवेत्यादि । 'असत्पुरुषसेवेव दृष्टिनिष्फलतां गता' इत्युत्तरार्धम् । मृच्छकटिकाख्यनाटके तमोवर्णनम् ॥ जयरामभट्टाचार्योक्तं समाधानमाह-यत्त्विति । नाम्नामिति । कातन्त्रवचनमेतत् । यद्यपि 'आख्यातमाख्यातेन क्रियासातत्ये' इति वचनेन पचतभृजतेत्यादौ आख्यातान्तयोरपि समासो भवत्येव, तथाप्यत्र तादृशविशिष्यविधायकं नास्तीति भावः । सामान्यत एवेति । यद्यपि इवेनेत्यादि वार्तिकमपि विभक्त्यलोपपूर्वपदप्रकृतिवरत्वयोरेव विधायकं न तु समासस्यापि 'सह सुपा' इत्यनेनैव समाससिद्धेरिति कैयटेनैवाभिहितत्वात् । तथापि प्रसिद्धिवशादेवमुक्तम्। उक्तसमासस्य नित्यानित्यवचिन्तामपहायैवाह-अथेति । तथैव परिहर. ति-तीति । नैयायिकादिभिः कर्तुराख्यातार्थत्वानभ्युपगमादाह-वैयाकरणेति। भावनायामिति । धात्वर्थ इत्यर्थः । भावना धातुवाच्येति तदभ्युपगमात् । स्वप्र. तियोगिकेति । यद्यप्यन्वयासंभवादित्येव वक्तुमुचितं संबन्धान्तरेणाप्यन्वयविरहात्। तथापि प्रकृते उक्तसंबन्धेनैवान्वयः संभावित इति विशिष्य संबन्धोपदानम् । नन्वेकत्रान्वयबोधेऽप्यपरेणापि सममन्वयबोधः कुतो न भवतीत्यत आह-अन्येति ।