________________
१८२
काव्यमाला। तत्र हेतूत्प्रेक्षा नाम प्रकृतकारणस्याप्रकृतकारणेन समेन संभावनम् । यथा-- _ 'रुषारुणा सर्वगुणैयन्त्या भैम्याः पदं श्रीः स्म विधेर्वृणीते ।
ध्रुवं सतामच्छलयद्यतः सा भृशारुणैतत्पदभाग्विभाति ॥' इह हि भैमीचरणयोरारुण्यसंबन्धः प्रकृतः तत्कारणं चादृष्टविशेषः तत्समेन छलनेन संभावनं संभावनाविषयस्य चाप्रयोगादध्यवसानम् । अ. दृष्टविशेषच्छलनयोः साम्यं चारुण्यचरणसंबन्धजनकतयेति बोध्यम् ॥ यद्वा खाभाविक आरुण्यसंबन्धः उक्तच्छलनहेतुकसंबन्धत्वेन संभाव्यत इति बोध्यम् ।
स्वरूपोत्प्रेक्षा तु प्रकृतस्याप्रकृतेन समेन संभावना । यथा'वहइ व महिअलभरिओ णोल्लेइ व पच्छओ धरेइ व पुरओ । पेल्लेइ व पासगओ गरुआइ व उवरिसंठिओ तमणिवहो ॥'
अत्रान्धकारस्य सर्वदेशव्यापित्वं प्रकृतं तत्राधोदेशव्यापित्वे प्रकृते तस्य खाधिष्ठितवस्तुतिरोधायकत्वसाधर्म्यण वहनरूपतया पृष्ठदेशव्यापित्वे प्रकृते तत्संयोगप्रतिबन्धकत्वेन साम्येन साधारणत्वेन पार्श्वदेशव्यापित्वे प्रकृते
वेऽपि कविप्रतिभामात्रकल्पितेत्यर्थः ॥ न चैवं 'मुखं चन्द्रः' इत्याद्युत्प्रेक्षायामतिव्याप्तिः, संभाव्यमानस्य तस्य चन्द्रादेः स्वतःसंभावितत्वादिति वाच्यम् । चण्डीदासेनैव समर्थनात् । तथा ह्याह-क्वचिदेकरूपमात्रस्यासत्वं क्वचित्तु संभाव्यमानस्यापि, तत्राद्यं यथा ममैव-'कण्ठे लुठत्काञ्चनपसूत्रः संवीज्यमानः सितचामरेण । श्यामो बभासे तडितोपगूढश्चलद्बलाकः किमु वारिवाहः ॥' अत्र संभाव्यमानतादात्म्याख्यधर्ममात्रस्यैवासत्वं न तु संबन्धिनः । द्वितीयं यथा-'स वः पायादिन्दुर्नवबिलसताकोटिकुटिलः स्मरारेयो मूर्ध्नि ज्वलनकपिशे भाविनिहितः । स्रवन्मन्दाकिन्याः प्रतिदिवससक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवनाङ्कुर इव ॥' अत्र संभाव्यमानस्य कपालाङ्कुरस्यापि शशविषाणसगोत्रत्वमेवेति । हेत्वादीत्यादिपदेन कार्यखरूपोभयग्रहणम् । यद्यपि हेतुकार्ययोरपि खरूपत्वमस्त्येव, तथापि तदुभयातिरिक्त स्यैवात्र खरूपपदार्थतयाविवक्षितत्वमिति प्राचां प्रन्थकृतां व्यवहारसमर्थनादत्रापि तथैवोक्तम् ॥ 'वहतीव महीतल. भरितो नोदयतीव पृष्ठतो वारयतीव पुरतः । प्रेरयतीव पार्श्वगतो गुरुकायत इवोपरिसं