________________
अलंकारकौस्तुभः ।
१८१
उपमेये उत्कटोपमान कोटिकः संशय उत्प्रेक्षेत्यर्थः । संभावनपदस्योत्कटकोटिकसंदेहार्थकत्वात् । उत्कटा प्रकृष्टस्योपमानस्येक्षा ज्ञानमत्रेति व्युत्पत्तेः । संदेहालंकारेऽतिव्याप्तिवारणाय उत्कटेति कोटिविशेषणम् । तत्र तुल्यकोटिकत्वमेवेति नातिव्याप्तिः । 'संभविनोऽर्थस्य तादृशासंभविवस्तुरूपतया संभावनम् उत्प्रेक्षा' इति काव्यप्रदीपः ||
अलंकारताप्रयोजकसंभावने तस्य विशेष्यानुल्लेखात् । 'किं चन्द्रोऽयमिति, किं पनसः स्विदयमितिवद्विशिष्य नाना कोट्यनुल्लेखसत्वात् । तस्मादुत्कटोपमान कोटिकं प्रकृतविषयकसंभावनमुत्प्रेक्षा । संदेहालंकारे तु तुल्यकोटिकमेवेति तद्भेद इत्याहुः । तदेतद्दर्शयति - उपमेये इति । विषयत्वं सप्तम्यर्थः । संशय इति । अनेककोटिकत्वमा - त्रसाधर्म्येण संशयत्वोक्तिः संभावनमित्यत्रैव तात्पर्यम् । संशयार्थकत्वादिति । यथोक्तानध्यवसायरूप संभावनार्थकत्वादित्यर्थः ॥ उत्प्रेक्षापदमाहात्म्या देवो क्तार्थलाभ इत्याह- उत्कटेति । उत्कृष्टेत्यर्थः । कोटिनिष्टोत्कटत्वद्वारकं च ज्ञानस्योत्कटत्वमिति बोध्यम् । प्रकृष्टेति । प्रसिद्धत्वेन उपमानस्य प्रकर्ष इत्यर्थः । ईक्षापदार्थमाहज्ञानमिति । यद्यपि उपसर्गाणां वाचकत्वपक्षेऽपि प्रशब्दार्थस्य प्रकृष्टस्य विषयतासंबन्धेन ज्ञाने धात्वर्थेऽन्वयो न संभवति । प्रेक्षत इत्यादौ ईक्षणादिनिष्ठस्य प्रकर्षस्य वोधेऽपि तस्य कर्मत्वादिना धात्वर्थान्वयानुभवात् । घटं प्रैक्षत इत्यादौ प्रकृष्टघटबोधानुदयात् । अन्यथा उपसर्गत्वमेव न स्यात् । ' उपसर्गाः क्रियायोगे' इति सूत्रेण क्रियासंबन्ध्यर्थबोधकतायामेव तद्विधानात् । प्रकर्षस्य च आश्रयतयोपमानपदार्थेऽन्वस्योक्तरीत्या लाभेन क्रियानन्वयात् । प्रकर्षमात्रस्य प्रशब्दार्थतया तदन्वयमिति योग्याश्रयरूपार्थस्योपस्थापकपदाभावात् । क्रियायामेवोपसर्गार्थान्वयाच्च । प्रकृष्ट एवोपसर्गशक्तिस्वीकारेऽपि तस्य तादात्म्येन धात्वर्थेऽन्वयः स्यात् । न तु विषयत्वादिनेति परमार्थः । तथापि तादृशार्थपरत्वमुत्प्रेक्षाशब्दस्येत्यत्र तात्पर्यम् । यद्वा प्रकृष्टविषयकत्वमेवात्र कथंचिदुपसर्गार्थः । तथा चोत्कटस्य प्रकृष्टविषयकस्य च तादात्म्येनैव धात्वर्थान्वयः । द्योतकत्वे तु तादृशार्थे धातोर्लक्षणेति । एवमेव 'विनानार्थेन च संदेहे हरणं हार उच्यते । नानासंदेहहरणाद्यवहारः प्रवर्तितः ॥' इति कात्यायनादिवाक्येष्वपि द्रष्टव्यम् ॥ संदेहालंकारेति । उपमेयविषय कोपमानको टिकज्ञानत्वस्य संदेहेऽपि सत्त्वादि - त्यर्थः । ननु तत्रापि कोटेरुत्कटत्वसंभवात्कथं ततोऽतिव्याप्तिनिरास इत्यत आहतत्र तुल्येति । ननु संदेहे कोटिद्वयस्य समानत्वमिति नियमोsसिद्ध एव कोटिनिष्टोत्कटत्वस्य संशये मणिकारादिसर्वसंमतत्वादनुभवसिद्धत्वाच्चेति चेत् । सत्यम् । तथापि संशयस्य समकोटिकस्यैवालंकारत्वमिति अलंकारभूत संशयेऽतिव्याप्तेरुत्कटत्वविशेषणेन वारणसंभवात् । अत एव संदेहालंकारेऽतिव्याप्तिवारणं प्रयोजनमुक्तम् । नतु संदेहमात्रे इति न कोऽपि दोषः ॥ संभविन इति । लोकप्रसिद्धस्येति विषयविशेषणम् ॥ तादशेति । तन्निष्टसादृश्य प्रतियोगीत्यर्थः । असंभवीति । लोकप्रसिद्धत्वाभा -
I