________________
१८०
काव्यमाला।
अथोत्प्रेक्षां निरूपयतिसंभाव्यते सह यदा साम्यप्रतियोगिना तदुपमेयम् । तामुत्प्रेक्षामाहुभिन्ना हेत्वादिविषयत्वात् ॥ १॥
भिरामराघवपद्यमुदाहरणीयम्-‘दृष्ट्वा रावणमेघनादमथनौ तद्वत्तिलोकोत्तर सौभ्रात्रं च पराक्रमश्च सहसाभातामसामान्यवत् । आलोकाद्भवदीययोरपि तयोः पूर्वोपजातापि धीः खप्रामाण्यविपर्ययप्रतिपदैवास्कन्दनं नीयते ॥' भरतं प्रति हनुमदुक्ति रियम् । अत्रासामान्यपदस्य सादृश्यानिरूपकत्वार्थकतया श्रीरामलक्ष्मणवृत्तिस्नेहपर निष्ठसादृश्यप्रतियोगित्वान्यप्रतियोगिकसादृश्याश्रयत्वोभयाभाववत्त्वेन ज्ञानस्य -- त्रुघ्नोभयवृत्तिस्नेहपराक्रमदर्शनोत्तरम्, अप्रामाण्यज्ञानास्कन्दनाभिधानात् । श्रीरामादिवृत्तिस्नेहपराक्रमयोर्भरतादिवृत्तिस्नेहपराक्रमयोश्च, परस्परप्रतियोगिकमेव सादृश्यं न त्वन्यदीय. स्नेहादिप्रतियोगिकमित्युपमेयोपमाध्वनिः । यथा च नैषध एव-'कर्णाक्षिदन्तच्छद. बाहुपाणिपादादिनः खाखिलतुल्यजेतुः । उद्वेगभागाद्दयिताभिधानादिहैव वेधा व्यधित द्वितीयम् ॥' अत्र भैमीसंबन्धिकर्णाद्यवयवानामद्वैताभिमानभङ्गाय तत्सजातीयावयवा. न्तरविधानोक्त्या तत्तदवयवद्वयस्यान्योन्यप्रतियोगिकमेव साम्यमिति तृतीयसदृशव्यवच्छेदो व्यज्यत इति संक्षेपः ॥
इत्युपमेयोपमा।
एतदनन्तरं सादृश्योपजीवकप्रकृतविशेष्यकाप्रकृतप्रकारकसंभावनात्मकतयोत्प्रेक्षालंकारः प्राप्तसंगतिक इत्याह-उत्प्रेक्षामिति । संभाव्यत इति । संभावनाविषयीक्रियत इत्यर्थः । विषयत्वस्याख्यातार्थत्वात् । साम्यप्रतियोगिना सहेत्यन्वयः । संभावनं च साधारणधर्मदर्शननिमित्तकं प्रकृतविशेष्यकं तादात्म्यसंसर्गकमप्रकृतप्रकारकं निश्चयानात्मकं ज्ञानम् । अस्ति हि मुखादौ सत्यपि तत्प्रकारकज्ञाने किमिदं चन्द्र इत्यादिकमाहार्यज्ञानमनुभवसिद्धम् । तन तावद्भमः, विशेषदर्शनसत्वात् । निश्चयानात्मकत्वाच । नापि संशयः, अनेककोट्यनुल्लेखात् । नाप्यनध्यवसायः । विशेषतोऽनुल्लिखितनानाकोटिकत्वं हि तदिति लीलावत्युपायादौ स्पष्टम् । यथानुपलब्धपक्षसपक्षविपक्षसहचारस्यासाधारणधर्मस्य दर्शनात् । पनसादौ किं खिदयमिति, यथा वा किं पनसः खिदयमिति।आयेऽनुल्लेखितनानाविरुद्धकोटिसमुल्लेखात्। किं खिदिति नानाकोटिकत्वेऽपि तदनुल्लेखात् द्वितीये पनसस्य तदन्यस्य च किंचित्त्वेन विरोधिनानाकोटयुल्लेखेऽपि किंचित्वस्य सामान्यरूपत्वेन विशिष्य कोटिसमुल्लेखो नास्तीति विशिष्टाभावस्योभयत्राप्यविशेषात् । इह च विशेष्य एकस्या एव कोटेः समुल्लेखात् । तस्मात्संभावनमनध्यवसायभि. नमिति । तस्योपमेये उपमानताप्रत्यायकत्वादलंकारत्वमिति चक्रवर्तिनः । न्यायपश्चाननादयस्तु संभावनानध्यवसाययोर्विशेषश्चिन्त्यः । अत्रापि शाब्दबोधे मुखत्वादेर्भानेऽपि