________________
अलंकारकौस्तुभः ।
१७९ तात्, द्वितीयायाश्च बिम्बप्रतिबिम्बभावापन्नधर्मप्रयोज्यत्वात्-इति, तत्तुच्छम् । रजसां मेघतुल्यगजानां च बिम्बप्रतिबिम्बभावविवक्षायां बाधकाभावात् । न च परस्परसदृशयोरेव बिम्बप्रतिबिम्बभाव इति वाच्यम्, बाधकाभावात् । न च परस्परसदृशयोरेव, रजोगजानामपि सादृश्यसत्त्वात् । त्वन्मतेऽप्यनुगामित्वप्रयोजकरजसा बाहुल्यस्यावश्यकत्वादिति वाच्यम् । यत्किंचिद्रजोयोगेन पृथिवीसादृश्यासिद्धेरिति तदाशय इति कृतं बहुना ॥
इत्युपमेयोपमा।
कोपमायां रजसामेवोभयानुगतानां साधारणधर्मत्वादिति भावः । बिम्बेति । व्योम. प्रतियोगिकभूतलोपमायां घनसदृशगजरूपधर्मनिमित्तकत्वात् । आकाशे गजानां भूतले च घनानामभावात् उभयोबिम्बप्रतिबिम्बभावाङ्गीकारेण सामान्यधर्मसंपत्तरिति भावः ॥ बाधकाभावादिति । आद्योपमायां रजसां धर्मत्वम् , द्वितीयोपमायां तु मेघतुल्यगजानामिति हि तैरुभयत्र धर्मभेद उक्तः । यदि तु घनसंनिभैरित्यस्योभयत्रान्वयं कृत्वा मेघसादृश्यावच्छिन्नानां रजसा तादृशगजानां च, बिम्बप्रतिबिम्बभावः स्वीक्रियते, तदोपमाद्वयेऽपि धर्मैक्यमक्षतमेव । न च रजसो भूमावपि सत्त्वात्तत्र तावन्मात्रेणैवैतत्प्र. तियोगिकोपमानिर्वाह इति वाच्यम् । सत्त्वमात्रस्य साधारण्य नियामकत्वविरहात् । रजो. गजानां परस्परसादृश्यसूचनाय च घनसंनिभैरित्यस्योभयत्रान्वयस्तदाह-रजोगजानामपीति । ननु बिम्बप्रतिबिम्बभावेन धर्मैक्यं कृत्वा उपमाद्वयखीकारे पूर्वोपमायां रजसां बिम्बत्वम् , गजानां च प्रतिबिम्बत्वम् , द्वितीयोपमायां तु वैपरीत्यम् । उपमेयवृत्तिधर्मस्यैव बिम्बत्वात् । उपमानवृत्तेश्च प्रतिबिम्बत्वात् । इति चेत् मैवम् , अभेदसादृश्यादिना रजसां रजानां चोभयत्र धर्मत्वाविरोधात् । अन्यथा बिम्बप्रतिबिम्बभावापन्नधर्मप्रयोज्याया उपमेयोपमायाः सर्वाभ्युपगताया विलयप्रसङ्गात् ॥ तदेतत्सर्वमभिसंधायाह-कृतमिति । इदं चात्रावधेयम् -औचित्यबलादुपमानोपमेयसादृश्यवाचकपदानामुभयत्रैक्यमेव युक्तम् । तद्वैपरीत्ये दोषः सहृदयोद्वेगात् । क्रमेण यथा—'वदनं कमलायते तदीयं शतपत्रं वदनायते सुदत्याः । असितोत्पलमालिकन्त्यपाङ्गा नयनान्तन्यसितोत्पलस्य मालाः ॥' 'निर्णीतमेतत्कविभिः समोहैः सर्वां विचिन्वद्भिरपि त्रिलोकीम् । भूमावृभुक्षत्यति स क्षितीशः खर्गे क्षितीशायत इत्युभुक्षाः ॥' उपमादोषा अपीह स्वयमूहनीयाः । स्पष्टत्वाद्विस्तृतिभयाच्च कण्ठतो न लिख्यन्ते ॥ एतदलंकारध्वनिर्यथा-'संसारसिन्धावनुबिम्बमत्र जागर्ति जाने तव वैरसेनि । बिम्बानुबिम्बौ हि विहाय धातुर्न जातु दृष्टातिसरूपसृष्टिः ॥' अत्र वस्तुतो नलस्यापि दमयन्त्या नलभिन्नत्वेन ज्ञानात् । युवत्योरेवान्योन्यप्रतियोगिकं सादृश्यम् , न त्वन्यस्येति । तृतीयसदृशव्यवच्छेदफलकमन्योन्यसादृश्याश्रयत्वं प्रतीयते । यदि तु भेदस्यापि पारमार्थिकमेवाभिमतं तदेदं मदीयम