________________
१७८ . काव्यमाला । वाक्यभेदः शाब्द आर्थश्च । आद्यः 'रजोभिः-' इत्यादौ, अन्त्यः 'तद्वल्गुना-' इत्यादाविति तद्व्याख्यातृभिरुक्तत्वात् ॥
यत्त्वत्र चित्रमीमांसा-रसगङ्गाधरादयः-नात्रोपमानान्तरतिरस्कारः प्रतीयते, उपमयोरेककर्मकत्वाभावात्, आद्योपमाया अनुगामिधर्मप्रयोज्य
लमिहापरेषामेषापि तुल्या तव तावदस्ति ॥' इत्यत्र प्रतिपाद्यायामुपमायामतिव्याप्तिः । 'तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥' इत्यत्र युगपत्प्रवृत्तायामुपमेयोपमायां वाक्यभेदाभावादव्याप्तिरिति, तदशुद्धम् । उपमायां विधेयत्वविशेषणदानेनाद्यदोषाभावात्तत्र हेतुत्वेनानुवाद्यत्वात् ॥ पर्यवसितवाक्यभेदमादाय द्वितीयदोषाभावाच्चेति हृदि निधाय रजोभिरित्यादेर्लक्ष्यत्वं चाविर्भविष्यतीति हृदि निधायाह-वाक्यभेद इति । यत्त्वेवमपि 'सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि ॥' इत्यत्रातिव्याप्तिरिति, तदप्यसत् । तथा हिउपमाद्वये एकधर्मनिमित्तकत्वविशेषणमावश्यकं तृतीयसदृशव्यवच्छेदस्य धर्मैक्यमन्तरेणानुपपत्तेरिति सर्वसंमतम् । एवं च सविता विधवतीत्यत्र सुखप्रदत्वं धर्मः विधुरपि सवितरतीत्यत्र च दुःखप्रदत्वमिति । कथमतिव्याप्तिशङ्केति सहृदयैर्विभावनीयम् । चित्रमीमांसायां तु 'अन्योन्येनोपमा वाच्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यादुपमेयोपमा मता ॥' अन्योन्यप्रतियोगिकत्वविशिष्टा व्यञ्जनया शक्त्या वा बोध्या । एकधर्मप्रयोज्या उपमा उपमेयोपमेति तस्यार्थः । इदं तच्च सममित्युभयविश्रान्तोपमावारणाय विशिष्टान्तम् । तत्रान्योन्यप्रतियोगिकत्वांशस्य व्यञ्जनगम्यतया सादृश्यांशस्य शक्तिवेद्यतया विशिष्टसादृश्यैकव्यापारबोध्यत्वविरहात् । वाशब्देन परस्परनैरपेक्ष्यानभिधानात् । व्यङ्गयोपमेयोपमासंग्रहाय व्यक्तेति । वाच्यतत्संग्रहाय वृत्यन्तरेति । रजोभिः स्यन्दनोद्भूतैरित्यत्रातिव्याप्तिनिषेधाय एकधर्मेत्युक्तम् ॥ अत्रापि रसगङ्गाधरकृतः 'अहं लतायाः सदृशी' इत्युदाहृतश्लोकेऽतिव्याप्तिः । तत्र तृतीयसदृशव्यवच्छेदानवगमनेन लक्ष्यत्वानौचित्यादिति वदन्ति, तन । विधेयत्वविशेषणेनैवात्रापि व्यभिचारनिरासात् । यदपि तैरुक्तम्-'अन्योन्यप्रतियोगिकत्वविशिष्टा उपमा एकवृत्तिमात्रवेद्येत्ययुक्तम् । 'खमिव जलं जलमिव खम्' इत्यादावपि खजलादेः सादृश्यान्वये प्रतियोगित्वस्य संसर्गत्वेन वृत्त्यविषयत्वात् । पदार्थसंसर्गस्य वृत्तिवेद्यत्वविरहादिति, तदप्यसत् । मात्रपदस्य वृत्त्यन्तरव्यवच्छेदमात्रपरत्वात् । एवं च प्रतियोगित्वस्य संसर्गतया बोधेऽपि वृत्त्यन्तरबोध्यत्वाभावसत्त्वेन मात्रपदविरोधाभावादिति ॥ रजोभिरित्यस्य लक्ष्यत्वविरहशङ्कामवतारयति-यत्त्वति । अनुगामीति । भूतलप्रतियोगिकव्योमानुयोगि