________________
अलंकारकौस्तुभः ।
बिम्बप्रतिबिम्बभावो यथा मम - 'युधि निसर्गनिरर्गलमार्गणाः प्रविगलन्निरवग्रहवर्षणः । वसुमतीतिलक त्वमिवाम्बुदोऽम्बुद इव त्वमुदेषि महीमुदे ||
अत्र वृष्टिबाणानां बिम्बप्रतिबिम्बभावः ॥
उपचारो यथा मम -
'अचला इव विद्वांसो विद्वांस इवाचला गुरवः । शास्त्राणि तोयनिधिवत्तोयनिधिः शास्त्रवद्बहुगभीरः ॥' अत्र गुरुत्वगभीरत्वयोर्विद्वच्छास्त्रेषूपचारः ॥ समासभेदो यथा मम ---- 'उल्लसितकुसुमहस्ता रमणीयस्तवकवक्षोजा । वल्लिरिव वामनयना विभाति वल्ली च वामनयनेव ॥' श्लेषो यथा ममैव
१७७
‘विचरग्राहसमूहश्चन्द्रमयूखाङ्कुरोल्लसितः ।
आकाश इव समुद्रः समुद्र इव सोऽयमाकाशः ॥' प्रथमपादे शब्दश्लेषो द्वितीये त्वर्थश्लेष इति विशेषः । अत्रेदमवधेयम्— ‘रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥'
इत्यादावुपमेयोपमैवालंकारसर्वस्वकारादीनामभिमता । अन्यथा 'द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा' इति तदुक्तलक्षणस्य तत्रातिव्याप्तिप्रसङ्गात् ।
प्युपलक्षणम् ॥ ग्राहेति । समुद्रपक्षे ग्राहाणां जलचराणां समूहः । आकाशपक्षे ग्रहाणां नक्षत्राणां संबन्धी ग्राहः स चासौ समूहश्च ग्राहसमूहः । विचरन् ग्राहसमूहो यत्रेति बहुव्रीहिः ॥ पूर्व ‘रजोभिः स्यन्दनोद्धूतैः' इत्यस्यालक्ष्यत्वमत्रोक्तं संप्रति प्रका रान्तरेण । तस्य लक्ष्यत्वमानयन् तस्य लक्ष्यत्वव्यवस्थापकग्रन्थसमर्थनाय प्रक्रम्यते— अत्रेदमिति । पर्यायेणेति । यौगपद्यविरहेणेत्यर्थः । तस्मिन्निति । उपमानोपमेयभावेत्यर्थः । अत्र पर्यायेणेत्यनेन वाक्यभेदनियमोsपि दर्शितः । द्वयोरिति च स्पष्टार्थ - मेव । अनन्वये पर्यायाभावात् । अतस्तद्वैयर्थ्यशङ्कानवकाश इति ध्येयम् । यदप्युक्तं रसगङ्गाधरे— 'अहं लतायाः सदृशीत्यखर्वगौराङ्गि गर्व न कदापि यायाः । गवेषणेना
२३