________________
१७६
काव्यमाला। ननु
रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसंनिभैः ।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' इति परस्परोपमायामतिव्याप्तिः । न चेयं लक्ष्यैवेति वाच्यम् । तृतीयसदृशव्यवच्छेदस्य फलस्याभावात् । तथा हि । चन्द्र इव मुखमिति मुखे चन्द्रसाम्ये वर्णिते चन्द्रेऽपि मुखसादृश्यमर्थतः सिध्यति साधारणधमस्योभयानुगामित्वात् । तत्र चन्द्रे मुखसाम्ये शब्दतो वर्ण्यमाने मुखचन्द्रयोः परस्परमेव साम्यं न त्वन्येनेति सदृशान्तरव्यवच्छेदः फलति । रजोव्याप्तत्वेन धर्मेण गगने भूतलसाम्ये वर्णिते तु भूतले मेघतुल्यगजैगगनसाम्यं नार्थतः सिध्यति रजोव्याप्तत्वमेघतुल्यगजव्याप्तत्वयोर्धर्मयोरुपमाद्वये भिन्नत्वात् । अतः पूर्वोपमयासिद्धमेव गगनसाम्यं भूतले वर्ण्यत इति गगनभूतलयोः परस्परमेव साम्यमिति सदृशान्तरव्यवच्छेदो न फलतीति चेत्, मैवम् । पूर्वोपमायां साधारणधर्मस्यैव द्वितीयोपमायां तादृशत्वे उपमेयोपमात्वमित्यभिप्रायात् । इदं चोपमानोपमेययोरुत्तरोपमायां वैपरीत्यमित्यनेन लभ्यते । तस्य हि तावानेव विशेषो न तु साधारणधर्मवैपरीत्यकृतोऽपीत्यर्थः। धर्मश्चानुगामी बिम्बप्रतिबिम्बभावापन्नो वेति नाग्रहः । स्पष्टार्थमुदाहरणानि । __ अनुगामी यथा मम
'त्वन्नयनमुत्पलमिव त्वन्नयनमिवोत्पलं कान्ते ।
विद्रुम इव त्वदधरस्त्वदधर इव विद्रुमः शोणः ॥' पूर्वार्धे आर्थः, द्वितीयार्धे शाब्द इति विशेषः । इति कारिकायास्तदर्थकत्वात् । अन्यथा रशनोपमायामतिव्याप्तेरनिवारणात् । फलस्याभावादिति । उभयोरन्योन्यातिरिक्तसादृश्यव्यावृत्तिफलकत्वे सतीत्यस्यापि एतदीयलक्षणान्तर्गतत्वादिति भावः ॥ फलतीति । सादृश्यैव विधेयत्वेन प्रतिष्ठानादिति भावः । लभ्यत इति । उपमानं उपमेयं धर्मश्चेति त्रयमुपमाघटकम् । तत्र द्वयोवैपरीत्योक्त्या धर्मस्य तद्भावो लभ्यते इति भावः । धर्मलोपस्तावदुदाहृतो 'हासः प्रसूनम्' इत्यादिना । धर्मवत्वे त्वाह-धर्मश्चेति । अनुगामीत्यादि । उपचारादेर.
१. 'उत्तरार्धे' क.