________________
अलंकारकौस्तुभः । उपमेयोपमामाह
उपमायां पूर्वस्यां प्रतियोग्यनुयोगिनौ यौ स्तः।
तो विपरीतौ परतश्चेदुपमेयोपमा वेषा ॥१॥ पूर्वोपमायामुपमेयस्य द्वितीयोपमायामुपमानत्वं तत्रोपमेयस्योपमानत्वं यत्र सोपमेयोपमेत्यर्थः । यथा
'हासः प्रसूनमिव हासमिव प्रसूनं __ पाणिः प्रवाल इव पाणिरिव प्रवालः । केशो द्विरेफ इव केश इव द्विरेफः
सा भाति वीरुदिव सेव विभाति वीरुत् ॥' कथं वैपरीत्यमिति दिक् । अलंकाररत्नाकरकारस्तु-तेन तदेकदेशेन वावसितभेदेनोपमानतया कल्पितेन सादृश्यमनन्वयः । उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यो. पात्ततो भासमानं साधर्म्यमेकोऽनन्वयः प्रसिद्ध एव । यथा-'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापः' इति । उपमेयैकदेशस्य तथैवोपमानताकल्पनमपरः । यथा ‘एतावति प्रपञ्चे सुन्दरमहिलासहस्रभरितेऽपि । अनुहरति सुभग तस्या वामार्धं दक्षिणार्धस्य ॥' उपमेयस्यैव प्रतिबिम्बादिरूपेण भेदकल्पनयोपमानत्वकथनं तृतीयः । यथा-'गन्धेन सिन्धुरधुरंधरचक्रमैत्रीमैरावणप्रभृतयोऽपि न शिक्षितास्ते । स त्वं कचत्रिनयनाचलरत्नभित्ति खीयप्रतिच्छविषु यूथ त्वमेषि ॥' चक्रमैत्री एकसार्थवर्तित्वमित्यर्थः । 'कच दीप्तौ' इत्यस्य कचदिति रूपम् । एषु त्रिष्वप्युपमानान्तरविरहप्रतीतेरनन्वयत्वमित्याह ॥ अत्र रसगङ्गाधरकृतः-उपमानान्तरव्यावृत्तिमात्रमनन्वयशरीरम् , उतैकोपमानोपमेयकत्वर्विशिष्टम् । आद्ये 'स्तनाभोगे पतन्भाति' इत्यादेः कविकल्पितोपमाया अप्यनन्वयत्वापत्तिः । यद्यर्थोक्तिरूपातिशयोक्तावप्यतिप्रसङ्गश्च ॥ द्वितीये दक्षिणार्धवामार्धयोर्वस्तुतो भिन्नयोः सादृश्ये कथमनन्वयत्वशङ्का । किंच गगनं गगनाकारम्' इत्यादौ खातिरिक्तोपमानविरहप्रतीतिद्वारा उपमेयस्य निरुपमत्वसिद्धिः । अत्र तु वामार्धस्य दक्षिणार्ध सादृश्य निबन्धनं निरुपमत्वमुपजीव्यविरुद्धतया नोल्लसत्येव । नायिकागतनिरुपमत्वप्रत्ययस्तु नानन्वयफलं भवितुमर्हति । तस्याः प्रकृतोपमेयत्वाभावात् । वामार्थस्यैवोपमेयत्वात् । उपमेयगतनिरुपमत्वप्रत्ययस्यैवानन्वयफलत्वकल्पनाच्च । एतेनानन्वयध्वनित्वमत्रेत्यलंकारसर्वखकारोक्तमपि निरस्तमित्याहुः ॥
इत्यनन्वयः। एवं खभिन्नसादृश्यव्यवच्छेदफलकमनन्वयं निरूप्य, उपमानोपमेययोः परस्परातिरितसादृश्यव्यावृत्तिफलक उपमेयोपमालंकारो निरूपणमहतीत्याह-उपमेयोपमामिति । उपमानत्वमित्यनन्तरं पूर्वोपमानस्योपमेयत्वमित्यपि द्रष्टव्यम् । तौ विपरीतौ परत