________________
१७४
.
काव्यमाला।
व्यङ्गयोऽपि दीपकादावुपमावत्पृथगेवालंकारः । अन्यथा दीपकादावपि सादृश्यव्यङ्ग्यतासत्त्वादुपमानान्तर्भावापत्तेः। यथा'भूमीनाथ सहाबदीन भवतस्तुल्यो गुणानां गणै
रेतद्भूतभवत्प्रपञ्चविषये नास्तीति किं ब्रूमहे । धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये_न स्यादेव तथापि तावकतुलालेशं दधानो नरः ॥' अत्रानन्वयध्वनिनैवोपपत्तेः । आरोपे सतीत्यादिन्यायाच्च । अन्यथा व्यङ्गयोपमादीनामपि सर्वेषामलंकारान्तरत्वापत्तेश्चेति दिक् ॥
इत्यनन्वयः।
त्वादित्यवधेयम् । सर्वथैवेति । उपमानलुप्तायामुपमायामतिव्याप्तिवारणाय तत्र प्रतीतिविषयस्यैवोपमानत्वनिषेधे तात्पर्यात् । प्रतीत्यविषयस्योपमानत्वसंभवेन सर्वथोपमाननिषेधस्याविवक्षितत्वात्। न त्वसमस्यालंकारान्तरत्वेऽनन्वयस्यालंकारान्तरत्वानुपपत्तिः । तत्राप्यसमालंकारध्वनिनैवोपपत्तेरिति चेत्, सत्यम् । अलंकारान्तरेणालंकान्तरध्वननस्यालंकारानपवादकत्वात् । एतद्रीत्यैवानन्वयध्वनिनापि नास्य गतार्थत्वमित्याह-अयं चेति । उपमावयङ्गयोऽपीत्यन्वयः । पृथगिति । दीपकादिवदिति शेषः । तदेव स्पष्टयति-अन्यथेति ॥ नन्वसमालंकारध्वनिनानन्वयस्यैव वैयर्थ्य कुतो न स्याद्विनिगमकाभावादित्यत आह-आरोप इति । अनन्वयस्योभयसिद्धतया तद्धनिनास्यैव गतार्थयितुमुचितत्वादिति भावः ॥ ननूभयसिद्धत्वमप्रयोजकम् । अनन्वयस्य गतार्थत्वमापादयता तस्य पृथक्त्वेनानभ्युपगमस्यैव संभवादसिद्धं च । किं चानन्वयस्य शरीरं खस्य खसादृश्यम्, अस्य तूपमाननिषेधः । तत्रानन्वयेन चमत्कारार्थ उपमानान्तरव्यावृत्तिरुपजीव्यते । एवं चोपमेयोत्कर्षप्रयोजकमनुपमत्वमेवासमालंकारखरूपमिति तस्यैवालंकारत्वमुचितम्, न तु वैपरीत्यम् । असमस्थले स्वेन खसादृश्यस्य व्यङ्गयत्वे चमत्कारानुपपत्तेः । तावन्मात्रस्य चमत्कारसामर्थ्य च अनन्वयेऽपि उपमानान्तरव्यावृत्तिध्वननवैयापत्तेः । एवं चावश्योपजीव्येनानुपमत्वेनानन्वयस्यैव गंतार्थत्व, मुक्तमिति । अत्रोच्यते-चमत्कारजनकमात्रोपमानान्तरव्यावर्तनरूपं तच्चानन्वये व्यङ्ग्यम् , असमे च वाच्यमिति । यत्र तद्यङ्गयम्, तस्यैवालंकारान्तरत्वमङ्गीकार्यम् । स एव ह्यर्थो वाच्यापेक्षया व्यङ्गयः सन्नधिकं चमत्कारमावहतीति सर्वसंमतत्वादिति । किं च कालत्रय उपमाननिषेधोसमालंकारः, तदनन्तर्भाव्यैवोपमाननिषेधस्तु अनन्वयव्यङ्ग्यः । एवं चासमस्य न्यूनवृत्तित्वम् , अनन्वयस्य चासमव्यापकतयाधिकविषयत्वं स्पष्टमेवेति