________________
अलंकारकौस्तुभः ।
१७३
अन्या त्वत्सदृशी नास्तीति भेदगर्भसादृश्यनिषेधात्त्वमेव त्वत्सदृशीति व्यङ्ग्यम् । यत्तु—सर्वथैवोपमाननिषेधोऽसमालंकारः । अयं चानन्वये त्तरार्धेन । रूपोपमेति । तवेत्यस्य सोपेक्षत्वाद्रूपान्वयः । उपमीयते इत्युपमा, त्वद्रूपं उपमेयं यस्या इति समासः । स्वकीयरूप निष्ठोपमानताद्वारेणोपमानत्वं बोध्यम् । यदि त्वङ्प्रत्ययस्य कर्मण्यभिहितत्वात्कथमुपमीयत इति व्युत्पत्त्या, उपमानपदस्योपमेयपरत्वमिति विभाव्यते । तदा छान्दसत्वमाश्रयणीयम् । अथ तस्याप्यगतिकगतित्वात्तत्राप्यपरितोषस्तदा उपमापदस्य तद्वत्वपरत्वमाश्रयणीयम् । पृथिवीतल इति च लोकमात्रपरं रूपकरणात्तस्योपरमे हेत्वभावादन्यत्रापि तादृशरूपोऽपीत्यनुपपत्तेः । अत्र त्वदुपमान्या नास्तीति, अन्यस्या एवैतन्निष्ठसादृश्यप्रतियोगिभूतायाः प्रतिषेधादभेदगर्भसादृशस्याभिमतत्वात्त्वमेव त्वत्सदृशीत्यनन्वयो ध्वन्यते । यथा वा नैषधे – 'जागर्ति मर्त्येषु तुलार्थमस्या योग्येति योग्यानुपलम्भनं न । यद्यस्ति नाके भुवनेऽथवाधस्तदा न कौतस्कुतलोकबाधः ॥ इदं च 'भैमी स्ववृत्त्यसाधारणधर्मनिमित्तकखजातीय प्रतियोगिकसादृश्यवती वस्तुत्वात्, घटादिवत्' इत्यनुमित्या भैम्या अन्यसदृशत्वसिद्धौ, अर्थात्तद्वृत्तिसादृश्यप्रतियोगिनायिकान्तरसिद्धिरित्याशङ्कयोच्यते । इह भैम्युपमानभूताया भूतले योग्यानुपलम्भादेवाभावसिद्धिः । भूतलं यदि भैमी वृत्तिसादृश्यप्रतियोगिनायिकाधिकरणं स्यात्, तदा तद्वत्तयोपलभ्येते त्यापादनसंभवात् । अथ यदधिकरणं यदसंनिकृष्टं तत्र तस्य कथं तदभावनिर्णयः । अधिकरणज्ञानरूपकारणविरहात् इति चेत्, उपलम्भस्य प्रत्यक्षशाब्दादिसाधारणस्य विवक्षितत्वात् ॥ तथा च देशान्तरे तत्सत्वे तद्दर्शिजनान्तरवाक्य। दिना तत्प्राप्नोतीति संभवात् । स्वर्गपातालयोस्त्वनुमानेन तदभावः साध्यते । तथा हि - 'स्वर्गपाताले भैमीवृत्तिसादृश्यप्रतियोगिनायिकाविरहिते भैमी दर्शन विषयकोत्कटेच्छावत्स्व वृत्तिकत्वात्' इति सामान्यव्याप्तिमूलकानुमानेनाभिमतार्थः सिध्यति । न चात्र प्रतियोग्य सिद्धिः । भेदसाधारणसादृश्यविवक्षया भैम्या एव सादृश्याप्रसिद्धेः । न चैवं तदभावेनैव सिद्धसाधनं भैम्यभावाश्रयत्वेनानभिमतत्वे सतीति पक्षविशेषणात् । तथा च बाधेन भैम्यभावमादाय साध्यानुपसंहारात् । केचित्तु 'स्वर्गपातालवृत्तिनायिका भैमीवृत्तिसादृश्यप्रतियोगित्वाभाववत्यः स्वसमानदेशानां भैमीदर्शनविषयकोत्कटेच्छानिवृत्त्यजनकत्वात्' इत्यनुमान मित्याहुः । एवं च भैमीभिन्नतदुप - माननिषेधे भैम्यामेव भैम्युपमानत्वं व्यज्यत इति । इदं त्ववधेयम् । वाच्यानन्वये यथा श्रुतमात्रस्य चमत्कार माधायकतया उपमानान्तरव्यावृत्त्यनुसरणमिति सर्वसिद्धम् । यत्र तूपमानान्तरव्यावृत्तिरेव वाच्या तत्र तस्या चमत्कारोल्लासकत्वात् । तदनुल्लासकस्वनिष्ठखप्रतियोगिकसादृश्याश्रयत्वव्यञ्जनं न ध्वनिव्यवहारप्रयोजकं वाच्यापेक्षया तस्यानतिशयादिति वस्तुगतिः । तथापि ग्रन्थान्तरानुसारेण स्पष्टार्थ च तदुद्भावनमिति दिक् ॥ कैश्चित्पृथग्गणितस्यासमालंकारस्यानन्वयेऽन्तर्भाव्यत्वादत्रैव तमाशङ्कते - यत्विति । एवमन्यत्रापि यस्य यत्रान्तर्भावस्तस्य तत्रैवोद्भावनम् । अन्यथान्तर्भावयितुमशक्य