________________
१७२
काव्यमाला ।
त्तिधर्मवांश्चन्द्रः' इति बोधः । उपमानान्तरव्यावृत्तिस्त्वंव्यङ्गयैवात्र ।
यत्तु चित्रमीमांसायाम् -- खस्मिन् खसादृश्यस्याप्यसंभवादुपमानान्तरव्यावृत्तिः - इति, तदसत् । असंभवस्याभावात् तस्मात्तथाविवक्षैव शरणम् । अत एव ‘असादृश्यविवक्षातः' इत्युक्तं प्राचीनैः । अत एवानुपमत्वकृतोत्कर्षविवक्षेति न्यायपञ्चाननादयः ॥
अस्य च भेदा उपमावदेव । अयं तु विशेषः । धर्मोऽनुगामिमात्रम् । बिम्बप्रतिबिम्बभावादिना धर्मोक्तौ हि धर्मान्तरावच्छिन्ने तत्र धर्मान्तरावच्छिन्नतत्साम्योक्तावुपमात्वमेव स्यात् । एवं तद्दोषा अप्यत्र केचिदेव । हीनत्वादीनां स्वस्मिन् स्वापेक्षया न्यूनत्वाधिक्याद्यसंभवेनाभावात् । अनुगामिधर्मश्च क्वचिदुपात्तः क्वचित्त्वर्थगम्यः । आद्यमुदाहृतम् । 'सत्येव जगति बहवोऽप्यर्थास्तेजस्त्वजात्यवच्छिन्नाः । तदपि प्रसिद्धमेव ह्यत्र विवस्वानिव विवखान् ॥' अस्य ध्वनिर्यथा रामायणे
' त्वां कृत्वा परतो मन्ये नूनं धाता स लोककृत् । न हि रूपोपमात्रान्या तवास्ति जगतीतले ॥'
व्यङ्गयस्य तत्रानुयोगाच्चेति ध्येयम् । व्यङ्गयैवेति । स्ववृत्तिधर्मवत्तया चमत्कारानुजीवनादित्यर्थः ॥ आद्यमुदाहृतमिति । 'आघूर्णितं पक्ष्मलमक्षिपद्मम्' इत्यत्र आघूर्णितत्वादिविशेषणानामनुगतानां नेत्रद्वयान्वयित्वादित्यर्थः । आद्यं शब्दाक्षेपान्तानुगामिधर्मवद्वाक्यमित्यर्थः । एवं द्वितीयमित्यत्रापि क्लीबत्वमुपपाद्यम् । विवस्वा निति । अत्र प्रकाशकत्वातिशयादिरूपधर्मोऽनुपात्त इत्यर्थः । ध्वनिरिति । यद्यप्युपमानान्तरव्यावृत्तिरत्र शब्दोपात्तैव, तथापि तन्निरूपितसादृश्यस्यैवानन्वयशरीरतया तस्य व्यङ्ग्यत्वमित्यर्थः । त्वां कृत्वेति । सुन्दरकाण्डे सीतां प्रति रावणस्योक्तिः । रूपकृदित्यनेनादौ संसारे नानाविधसौन्दर्यनिर्माणजन्याभ्यासातिशयसूचनम् । उपरत इति रूपकरणान्निवृत्त इत्यर्थः । एवं च पूर्वरूपनिर्माणाभ्यासेन सीतारूपातिशयजननवदेतद्रूपनिर्माणाभ्यासेनैतदुत्तरनिर्मितरूपेऽर्थादुत्कर्षेऽपि सेत्स्यतीति नाशङ्कनीयम् । नन्वेतदुत्तरं रूपनिर्माणान्निवृत्त्या एतदुत्कृष्टरूपाभावसिद्धावपि यदभ्यासेनैतद्रूपस्यैव निर्माणं तजन्यनायिकान्तररूपाणां एतत्समानकालीनानां एतत्सादृश्यं स्यादेवेति चेत्, न । तादृशविलक्षणाभ्यासेनैतद्रूपस्यैव निर्माणमित्याशयात् ॥ तदाह — न हीत्यादिनो
१. 'स्तु.'