________________
अलंकारकौस्तुभः ।
१७१ वसिद्धत्वादिष्टत्वं दुरुपह्नव एव । न च तद्भेदभाने संभवति तत्र च भेदांशभानाभावेनानन्वय इति व्यवस्था, तस्माद्वृत्तित्वं भेदश्चेवार्थः । 'चन्द्रव
तृतीयपादे 'दहर उत्तरेभ्यः' इत्यधिकरणे, 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीके वेश्म दहरोऽस्मिन्नन्तराकाशः' इति श्रुतौ । ब्रह्मपुरं शरीरं जीवस्य ब्रह्माभिन्नतया तन्निवासरूपत्वात् । दहरं परिच्छिन्नम् । अल्पमिति यावत्। पुण्डरीकं तत्संनिवेशं हृदयमित्यर्थः। तत्संबन्धितया तदन्तर्गत आकाश उक्तः । स किं भूताकाशः। उत परं ब्रह्मेति संदिह्य भूताकाशस्य विवक्षितत्वे ‘यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः' इति श्रूयमाण उपमानोपमेयभावो न संभवतीति शङ्कायां पूर्वपक्षिणावच्छिन्नानवच्छिन्नभेदेन बाह्याकाशहृदयावच्छिन्नाकाशयोर्भेदमारोप्य उपमानोपमेयभावः समर्थितः । सिद्धान्तेऽपि भेदारोपेण तदुपादानमगतिकगतिरिति नात्र तदङ्गीकरणं युक्तमित्यभिहितम् । तथा च भाष्यकृतः-'अगतिका हीयं गतिर्यत्काल्पनिकभेदाश्रयणम्' इति ॥ वाचस्पतिमित्रैरपि भामत्यामुक्तं तद्व्याख्यानावसरे-'तेन तस्योपमेयत्वं रामरावणयुद्धवत् । अगत्यां भेदमारोप्य गतौ सत्यां न युज्यते॥' तदपि तत्कल्पतरौ व्याख्यातम्ह्यस्तनाद्यतनत्वादिना युद्धे भेदारोपः क्रियते । 'गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोयुद्धं रामरावणयोरिव ॥' इत्यत्र-इति ॥ एतावता हि एवंविधस्थले भेदारोपेण उपमैवेत्यभिप्रायो लभ्यते त्वया च नात्र भेदविवक्षोच्यत इति विरोधः ॥ पूर्वमीमांसायामपि तद्यपदेशाधिकरणे-'श्येनेन यजेत' इत्यत्र गुणविधित्वपक्षे श्येनपदस्य पक्षिविशेषे निरूढतया तस्यैव विधेयत्वापत्तौ 'यथा वै श्येनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यमादत्ते' इति उपमानोपमेयभावो न संगतः स्यात् । खस्य खसादृश्याभावात्-इत्युक्तम् । तथा पश्चमाध्याये 'तेन तुल्यम्' इति सूत्रे कैयटेनाप्युक्तम्-शयितेन तुल्यं शयितव्यमित्यत्र नास्त्युपमानोपमेयभावः । यथा 'गौरिव गौरिति' येनैव हेतुना एका गौस्तेनैवापरोऽपीति उपमानोपमेयभाव इति ॥ अत्रोच्यते-न तावत् गगनमित्यत्र भेदारोपेणोपमेत्येतद्विरोधः । तत्र भेदविवक्षायामुपमाया अस्माभिरपि खीकारात् । यदा तूपमानान्तरव्यावृत्तावेव तात्पर्य तदानन्वय एव । कैयटग्रन्थादपि हि उपमानोपमेयभावो नास्तीत्युक्त्या तत्र सादृश्यपर्यवसानं नास्तीत्यर्थो लभ्यते । तेन चान्यप्रतियोगिकसादृश्यानाश्रयत्वविवक्षायां न कोऽपि विरोध इति अनुभवसिद्धस्य ग्रन्थविरोधेनापलापानहत्वाच्चेति ॥ एवं च 'उपमानानि सामान्यवचनैः' इति सूत्रे यन्महाभाष्ये दृश्यते-'यापमानोपमेययोरैक्यं तदा गौरिव गौरित्यत्राप्युपमानोपमेयभावः प्राप्नोति' इति ॥ तदपि उक्ताभिप्रायकमेवेति ॥ इवार्थ इति । लक्षणयेति शेषः । खण्डशक्तिपक्षेऽपि अर्थैकदेशमपहाय तदेकदेशप्रवृत्ती लक्षणावश्यकत्वात् । शक्यतापर्याप्त्यधिकरण एव शक्तेः सिद्धान्तसिद्धत्वात् । अत एव लक्षणाप्रसङ्गभिया दहराधिकरणे आकाशस्याकाशसाम्याश्रयणं निराकृतम् । उक्त