________________
१७०
काव्यमाला।
सत्त्वादिति वाच्यम् । 'एतत्कालीनचन्द्रस्तत्कालीनचन्द्रसदृशः' इति बोधं प्रति 'चन्द्रो न चन्द्रभिन्नः' इति बाधज्ञानस्याप्रतिबन्धकत्वात् । बाधबुद्धिप्रतिबध्यप्रतिबन्धकभावे विरोधिप्रकारत्वनिवेशस्यावश्यकत्वात् । भेदस्य च कालिकाव्याप्यवृत्तितया तदविरुद्धत्वादिति चेन्न । तथा सति 'चन्द्र इव चन्द्रः' इत्यतः 'एतत्कालीनश्चन्द्रस्तत्कालीनचन्द्रसदृशः' इति बोधापत्तेः । अत एव संयोगसंसर्गकपर्वतविशेष्यकवह्निप्रकारकज्ञानसत्त्वे न समवायसंसर्गकतादृशधीः । तदयं फलितार्थः । यद्युक्तरीत्या बोधोऽभ्युपगम्यते तदा तस्योपमात्वमस्माकमपीष्टम् । 'चन्द्रश्चन्द्रवृत्तिधर्मवान्' इति बोधोऽप्यनुभ
त्याह-एतत्कालीनेति । आवश्यकत्वादिति । अन्यथा 'शाखावच्छेदेन कपिसंयोगाभाववान्वृक्षः' इति ज्ञानस्य 'मूले वृक्षः कपिसंयोगी' इत्येतद्वोधविरोधित्वापत्तेः । तथा च बाधबुद्धौ तदवच्छेदकतया भासते तदवच्छेदेनैव प्रतियोगिविशिष्टबोधो न भवति । अत्र च बाधबुद्धौ तत्कालावच्छेदकतया भासते विशिष्टवुद्धौ त्वेतकाल इति न विरोधित्वमिति भावः । बोधापत्तेरिति । योग्यताज्ञानघटकस्य शाब्दबोधप्रवेशावश्यकत्वादित्यर्थः ॥ अत एवेति । उक्तावश्यकत्वरूपहेतोरेवेत्यर्थः । संयोगसंसर्गकपर्वतविशेष्यकवह्निप्रकारकयोग्यताज्ञानसत्त्वे पर्वतो वह्निमानिति वाक्यात्समवायं संसर्गीकृत्य पर्वतविशेष्यकवह्निप्रकारकशाब्दबोधो न भवति विशेष्यप्रकारयोर्योग्यताज्ञान विषयतापन्नयोरेव भासनवत्संसर्गस्यापि तादृशस्यैव भानादित्यर्थः । पदार्थयोर्विशेष्यतायां पदोपस्थितस्यैव संसर्गविशेषस्य शाब्दबोधविषयतायां योग्यताज्ञानविषयत्वस्य नियामकत्वमित्यत्र तात्पर्यम् । नन्वेवमपि एतत्कालादेः संसर्गत्वेन प्रकृते भानविरहात्, पदार्थत्वाभावाच्च कथं शाब्दबुद्धिविषयत्वमिति चेत्, सत्यम् । चन्द्रपदस्य तादृशचन्द्रे लक्षणाखीकारात् । नन्वेवमपि योग्यताज्ञानविषयत्वस्य तद्विषयत्वनियमकल्पनमसंगतम् । लक्षणास्वीकारे पदार्थत्वेनैव तदुपस्थितिसंभवादिति चेत् , सत्यम् । चन्द्रपदार्थस्य पूर्वकालावच्छिन्नप्रतियोगित्वेन भेदे तस्य चैतत्कालावच्छिनानुयोगित्वेन चन्द्रपदार्थेऽन्वय इत्यर्थात् । नन्वेवमप्येतत्कालीनश्चन्द्र इत्याकारकबोधानुपपत्तिरेव संसर्गाशनिविष्टपदार्थस्यान्वयप्रतियोगिपदार्थविशेषणत्वेन बोधायोगादिति चेत्, सत्यम् । तादृशबोधस्यैव विवक्षितत्वात् । वस्तुतस्तु चन्द्रपदस्यैतत्कालीनचन्द्रलक्षणया 'एतत्कालीनश्चन्द्रः' इत्यादिरेव बोधः । पदोपस्थितपदार्थानां तद्योग्यताज्ञानविषयसंसर्गस्य चावश्यं शाब्दे भानमित्यत्र चात एवेत्यादिकथनमिति संक्षेपः ॥ अस्माकमपीति । ननु भवदभिमतस्थलेऽपि आरोपितभेदेनोपमैवालंकार इति प्रामाणिकसंमतमित्यनन्वयालंकारोऽनवकाश एव । तथा हि-उत्तरमीमांसायां प्रथमाध्याये