________________
अलंकारकौस्तुभः । अत्र भैमीनेत्रमिव भैमीनेत्रमिति एकस्यैवोपमानोपमेयभावः । नन्वयमुपमातो नातिरिच्यते । तथा हि । किं तद्भेदकम्, न तावदिवार्थभेदस्य खस्मिन्नसंभवः, व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्य खस्मिन्नपि संभवात् । देशकालादिभेदेन खस्मिन्नपि स्वभेदसत्त्वाच्च । नापि फलभेदः। चन्द्र इव मुखमित्यादौ मुखे चन्द्रगतधर्मप्रतीतिः । चन्द्र इव चन्द्रः इत्यत्र तु अन्यस्मिंश्चन्द्रनिष्ठसादृश्यप्रतियोगित्वाभावो बुध्यते, न तु चन्द्रगतधर्मवत्त्वम् । तस्य साधारणधर्मज्ञानकाल एव सिद्धत्वात् इति वाच्यम् । चन्द्रगतधर्मप्रतीतौ बाधकाभावात् । न चेवार्थभूतेऽन्योन्याभावे उपमेयप्रतियोगिकत्वस्य भानेन चन्द्रप्रतियोगिकभेदसमानाधिकरणत्वभानं न संभवति चन्द्रनिष्ठान्योन्याभावो न चन्द्रप्रतियोगिक इति बाधज्ञान
उपमानत्वेनेति, न त्वेतदपि समासकोटिप्रविष्टमिति द्रष्टव्यम् । भैमीनेत्रमिवेति । यद्यप्यस्या इवास्या इति यथाश्रुतेन भैमीप्रतियोगिकसादृश्याश्रयस्य भैम्या नेत्रमुक्तवि. शेषणविशिष्टमित्येवायाति तथाप्यत्र वर्णनस्यैव प्रक्रमात् । अस्या नेत्रमिवास्या नेत्रमित्यन्वयो नेत्रपदावृत्त्यावश्यं कार्य इत्यर्थः ॥ न तावदिति । इदं च इवार्थभेदस्योपमेयान्वय इति पक्षमङ्गीकृत्योक्तम् । व्यासज्येति । घटपटोभयत्वावच्छिन्नप्रतियोगिताकभेदस्य पटादावपि सत्त्वादित्यर्थः । देशेत्यादि । पूर्वक्षणादिवृत्तित्वविशिष्टस्यैतत्क्षणादिवृत्तिविशिष्टस्य च चैत्रस्य भेदप्रतीतेः । नापीति । वाच्य मित्यनेनान्वितम् । फलभेद इत्यनन्तरं उपमाभेदक इत्यस्यानुषङ्गः । तमेव फलभेदं दर्शयति-चन्द्र इवेत्यादिना । सिद्धत्वादिति । धर्मे चन्द्रवृत्तित्वज्ञानकाले चन्द्रस्य धर्माश्रयत्वमपि बुद्ध्यते समानवित्तिन्यायात् । ततश्च तद्बोधस्य पुनर्वैयर्थ्याच्चन्द्रस्यान्यदुपमानं नास्तीत्येव बुद्धिर्भवति । शब्दाधिक्यादर्थाधिक्यमिति न्यायादित्यर्थः । ननु शाब्दादौ समानवित्तिवेद्यत्वन्यायो नास्त्येव, तस्य व्युत्पत्तिविशेषनियतत्वात् । मानसं च तत् ज्ञानं शाब्दे न प्रतिबन्धकम् । अन्यथा योग्यताज्ञानस्यावश्यकतया शाब्दोच्छेदापत्तेः । सत्यम् । एतद्दोषस्याप्यत्र बोध्यत्वात् ॥ बाधकाभावादिति । श्रुतिप्राप्ते प्रकरणादीनामनवकाशादिति न्यायेन शब्दगम्यमर्थमुपेक्ष्य प्रकारान्तरेण तद्बोधानुसरणस्यानुचितत्वादित्यर्थः । ननु धर्मस्य तदन्वयसंभवेऽपि इवार्थभेदस्य तदन्वयायोग्यतया नैवं बोधः स्यादित्याशङ्कते-न चेति । यद्यपि विशिष्टतया भेदः पूर्वमेवोक्त इत्यत इयं शङ्का न पुनरुदेतुमर्हति । तथापि सिद्धान्तवक्ष्यमाणरीत्या उक्तविधभेदस्य तद्वाक्यजन्यशाब्दबोधविषयत्वाभावनिश्चयदाादिदमुक्तम् । भेदमात्रोपपत्तिमात्रि
२२