________________
काव्यमाला।
अथानन्वयमाह
यत्रैकावच्छिन्ने स्तामुपमानोपमेयत्वे ।।
अन्यसदृशं निषेधुं तमनन्वयसंज्ञमाचख्युः ॥ १ ॥ उपमानतावच्छेदकधर्म एव यत्रोपमेयतावच्छेदकः सोऽनन्वय इत्यर्थः ।। यद्धर्मावच्छिन्नप्रतियोगिताकं सादृश्यं तद्धर्मावच्छिन्नतदनुयोगिताकत्वमिति यावत् । अत उपमेयोपमायां नातिव्याप्तिः । अनन्वयपदार्थमाहअन्येति । कर्मधारयोऽयम् । स्वभिन्नमुपमानमित्यर्थः । सदृशपदस्य सादृश्यप्रतियोगिपरत्वात् । न विद्यते तद्भिन्नस्य सादृश्यप्रतियोगिन उपमानत्वेनान्वयो यत्रेत्यर्थः । यथा-- 'आपूर्णितं पक्ष्मलमक्षिपद्मं प्रांशुद्युति श्वैत्यजितामृतांशु । अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ॥
भेदगर्भसादृश्यावगाापमानिरूपणानन्तरं भेदनिर्मुक्तसादृश्यावगाहितयानन्वयः प्रा. प्तसंगतिक इत्याह-अथेति । 'द्वन्द्वात्परं श्रूयमाणं प्रत्येकमभिसंबध्यते' इति न्यायेन उपमानोपमेयत्वेत्यत्र त्वपदार्थस्योपमानपदार्थेनाप्यनन्वयः । तदेव स्पष्टयतिउपमानत्वेति । ननु 'हास: प्रसूनमिव हास इव प्रसूनम्' इत्युपमेयोपमायां पूर्वोपमायामुपमेयतावच्छेदकं प्रसूनत्वमेवोत्तरोपमायामुपमेयतावच्छेदकमिति तत्रातिव्याप्तिरत आह-यद्धर्मेत्यादि । तत्र तु प्रसूनत्वावच्छिन्नप्रतियोगिताकसादृश्ये प्रसूनत्वावच्छिन्नानुयोगिताकत्वं नास्ति, इति न व्यभिचार इत्यर्थः । अन्यसदृशनिषेधार्थकत्वस्य लक्षणे प्रवेशभ्रमं निवारयति-अनन्वयपदार्थमाहेति । अन्यस्य संदृशमिति षष्ठीसमासे 'इन्दुरिन्दुरिव श्रीमान्' इत्यादिना घटायुपमाननिषेधानुपपत्तेरसंगतिः स्यादत आह-कर्मधारय इति । नन्वेवमपि नाभीष्टसिद्धिरुपमानान्तरस्यापि किंचिदन्यत्वादत आह-स्वभिन्नमिति । सन्निधानवशात्प्रकृतस्यैव प्रतियोगितया भेदेऽन्वय इति भावः । ननु सदृशपदस्य सादृश्याश्रयपरत्वात्कथमुपानलाभ इत्यत आह-सदृशपदस्येति । अनन्वयपदस्य योगशक्त्या उक्तार्थपरत्वं दर्शयतिन विद्यत इति । न विद्यतेऽन्वयो यत्रेत्यर्थे 'नमोऽस्त्यर्थानां वाच्यो वाचोत्तरपदलोपश्च' इति वार्तिकेन बहुव्रीहौ कृते विद्यमानपदलोपः । अन्वयश्च किं निरूप्य इत्याकालायां खभिन्नस्योपमानत्वेनेत्युक्तम् । उपमेयभिन्नस्य सादृश्यादेरेवान्वयसत्त्वात् । बाधवारणाय