________________
अलंकारकौस्तुभः ।। स्थानस्थानविकीर्णविचारमुपमागतं सुखेनैव । । एकत्र द्रष्टुं ये वाञ्छन्ति तदर्थमेष मे यत्नः ॥
___इत्यलंकारकौस्तुभे सपरिकरमुपमानिरूपणम् । च्छेदकावच्छिन्नप्रतियोगिताकभेदस्य चोपमेयवृत्तेरुपमाव्यवस्थापकत्वात् । अत्र एवात्र सदृशादिशब्दानामप्रयोगः संगच्छते । नाप्यर्थान्तरन्यासविशेषः । तत्र इवादिपदप्रयोगविरहात् । न चार्थत्ववाच्यत्वमानं तावता स्यानत्वतिरेक इति वाच्यम् । सामान्यार्थसमर्थको हि विशेषवाक्यार्थो द्विविधः । अनुभवाद्यंशस्यैव विशेषरूपत्वम् , विधेयांशस्तु सामान्यगत एवेत्येकः । अंशद्वयेऽपि विशेषत्वमेवेत्यपरः । तत्राद्ये उदाहरणालंकारः, द्वितीये त्वर्थान्तरन्यासविशेष इति विभाग इत्याहुः ॥ प्राचीनानुसारिणस्तु-उपमैवेयं 'निर्विशेषं न सामान्यम्' इति न्यायेन प्रथमोक्तसामान्यस्य किंचिद्विशेषपर्यवसानावश्य. कतया तेनैव सह चरमोक्तविशेषस्योपमानिष्पत्तिसंभवादेकविशेषवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्य विशेषान्तरेष्वबाधितत्वात् । सामान्यविशेषभावस्य प्रथम प्रतीतावपि अन्ततः सादृश्य एव विश्रामाच्चेत्याहुः । वस्तुतस्तु पूर्वार्धोपात्तसामान्यस्य विशेषान्तरमादाय न पर्यवसानम् । उत्तरा?पस्थितविशेषमादायैव तदावश्यकत्वात् । अन्यथा तदुपादानवैयर्थ्यात् , उभयोः समर्थ्यसमर्थकत्वप्रत्ययाच्च । अतोऽर्थान्तरन्यास एवायम् । अनुवाद्यांशस्य विशेषरूपत्वम् , विधेयांशस्तु सामान्यगत एवेत्यवान्तरभेदेऽपि तद्वैविध्यस्यैवोचितत्वात् । इवादिपदप्रयोगस्तु सामान्यव्याप्तिग्रहस्थलविशेषप्रदर्शनार्थः । अतएव सदृशादिपदानामप्रयोगोऽपि संगच्छते । एवं च दोषः सत्पदार्थस्यापि गर्दाहेतुरिति हेतुहेतुमद्भावस्य लशुनस्थल एव प्रह इति । परमार्थतस्तु-निदर्शनाविशेष एवायं विशेषवाक्ये कार्यतावच्छेदकधर्मस्य सामान्यवाक्यगततादृशधर्मव्याप्यतायामेव विशेषण सामान्यस्य समर्थरूपार्थान्तरन्यासस्य व्यवस्थापयिष्यमाणत्वात् । प्रकृते च 'उन्नतं पदमुपैति यो लघुर्तेलयैव स पते दिति ध्रुवम् । शैलशेखरगतो दृषत्कणश्चारु मारुतधुतः पतत्यधः ॥' इत्यतो वैलक्षण्यानिरुक्तेः । उन्नतपदप्राप्तो लघुर्निश्चयेन पतति, शैलान. वर्ती मन्दमारुतोद्धतो दृषत्कण इव, इत्यतोऽपि तत्समानाकारकप्रतीतेरेवोदयात् । 'विश्रब्धघातदोषः खवधाय खलस्य वीरकोपकरः । वनतरुभङ्गध्वनिरिव हरिनिद्वातस्करः करिणः ॥' इत्यादावपि तथात्वदर्शनात् । परं तु इवपदप्रयोगाभावे द्वितीयवाक्ये तत्क्रियापदस्य पुनः प्रयोगः । इवपदसत्त्वे तु तद्बलादेव तत्र तदन्वयोपपत्तेन तथेति । वाक्यभेदस्तूभयत्राप्यविशिष्टः ॥ यत्तु-उदाहरणालंकारे इवादिपदप्रयोगे बाक्यभेदाभावो निदर्शनादिशब्दप्रयोगे तु न स:-इत्युक्तम् । तन्मन्दम् । सामान्यधर्मवाचकपदस्य पृथक्प्रयोगविरहेऽपि वाक्यभेदस्यावश्यकत्वात् । वाक्यैकवाक्यतायाश्चोभयत्राप्यविशेषादिति संक्षेपः । तदेतत्सर्व ध्वनयन्नाह-इत्यलमिति ॥
इत्युपमालंकारनिरूपणम् । १. 'शब्देऽपि' क.