________________
काव्यमाला ।
त्वाद्वा सर्वथैव न व्यङ्गयत्वमिति ॥ तदपि चिन्त्यम् । एकदेशस्य वाच्यत्वेऽप्यलंकारस्य व्यङ्गयत्वानपायात् । अत एव .
'धन्यासि या कथयसि प्रियसंगमेऽपि
विस्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण
सख्यः स्मरामि यदि किंचिदपि स्मरामि ॥' इत्यत्र व्यतिरेको व्यङ्गय इति काव्यप्रकाशव्याख्याने 'धन्यासि' इत्यत्र । धन्यासीति लक्षणाया आवश्यकत्वात् । उत्तरार्धे 'अहं धन्या' इत्यस्यैव व्यङ्गयत्वम् । एवं च व्यतिरेकघटकस्य त्वमधन्येत्यंशस्य व्यङ्गयत्वाभावेऽपि अहं धन्या इत्यस्यैव व्यङ्गयत्वम् । एवं च व्यतिरेकघटकस्य त्वमधन्येत्यंशस्य व्यङ्गयत्वाभावेऽपि अहं धन्येत्यस्य व्यङ्गयतामात्रेण व्यतिरेकस्य व्यङ्गयत्वोक्तिरिति चण्डीदासादयः ॥ ताद्रूप्यस्योपयोगितावच्छेदकत्वेऽपि परिणामशरीरत्वे मानाभावाच्चेत्यलमतिप्रसङ्गेन।। तथात्वेऽपि तदेकदेशस्य विषयिणि विषयताद्रूप्यस्य शाब्द(धी)विषयत्वात्कथं विशिष्टस्य व्यङ्गयत्वमित्याह-एकदेशस्येति । तत्र प्राचीनसंमतिमाह-अत एवेति । धन्यासीति । नायिकायाः सखी प्रत्युक्तिः । 'नीविराग्रथनं नार्या जघनस्थस्य वाससः' इति नाममाला ॥ शया(पा)मीत्यत्र खाभिप्रायाविष्करणमात्रस्य विवक्षितत्वादात्मनेपदाभाव इति शाब्दिकाः । आवश्यकत्वादिति । अन्वयानुपपत्तेः पूर्वमेव प्रतिसंधानात् । विरोधलक्षणया धन्यपदस्याधन्यार्थकत्वादित्यर्थः ॥ चण्डीदासेति । इदमुपलक्षणम् । इन्दुनेति त्वदुक्तपरिणामध्वन्युदाहरणेऽपि विषयिणो विषयतादात्म्यस्य व्यङ्ग्यत्वेऽपि उत्तरार्धे विरहतापोपशमनरूपप्रकृतकार्योपयोगितायाः शाब्दविषयत्वादुक्कगतेरवश्यं शरणीकार्यत्वादित्यर्थः । केचित्तु सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणालंकारः । उच्यमान इत्यर्थान्तरन्यासवारणं तत्र व्यङ्ग्यत्वात् । तदुक्तिश्च इव यथा निदर्शनदृष्टान्तादिशब्दैबर्बोध्या । न च इवादीनां सादृश्यार्थकतया सामान्यविशेषभावार्थकत्वं नास्तीति वाच्यम् । लक्षणया तत्संभवात् । अन्यथा संभावनार्थकत्वमपि न स्यात् । इवपदेन यथा'अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥' अत्र सत्पदार्थलशुनयोर्दोषोग्रगन्धयोश्च सामान्यविशेषभावः । न चेयमु. पमैवेति वाच्यम् । विशेषस्य सामान्यावच्छिन्नप्रतियोगिताकभेदरहितत्वात् । उपमानताव
१. 'शाब्दबोधीयविषय' क.