________________
अलंकारकौस्तुभः ।
१६५ वोक्तम् । तत्र प्रकृतकार्योपयोगित्वं न परिणामशरीरम्, अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषयिणो विषयताद्रूप्यम् ॥ एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निषेवणात् अयं तव ताप शान्ति नेष्यतीति प्रकृतोपयोगिताया व्यङ्गयत्वेऽपि तदवच्छेदकीभूतस्य विषयिणि विषयताद्रूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वाच्छक्यसंसगे
शमयिष्यते ॥' इत्यत्र वक्तुविरहित्वेन व्यङ्गयरमणीयमुखाभिन्नत्वेनाभिमतस्येन्दोविरहसंतापशमनहेतुत्वात् , मुखस्य चन्द्राभिन्नत्वेन बोधे तेन विरहतापशमनरूपप्रकृतकार्यानुपपत्तेः । चन्द्रस्य विषयिणो विषयभूतमुखाभिन्नत्वं व्यङ्गय मिति परिणामध्वनियुक्त इत्यप्यवधेयम् ॥ यदपि 'तारानायकशेखराय जगदाधाराय धाराधरच्छायाधारककन्धराय गिरिजासङ्गकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥' इति वैयधिकरण्येन परिणाम इति चित्रमीमांसोक्तं तत्र दूषितम्-रूपकमेवेदं नतु परिणामः । गिरिजासङ्गैकशृङ्गारिणि भगवति भवे प्रणामस्य प्रक्रान्तत्वात् । शृङ्गारितया च शेखरादिभूषणानामपेक्षितत्वात् । आरोप्यमाणानां शेखरादीनां खरूपेणैवोपयोगात् । न तु नद्या दितादात्म्येनेति । नद्यादिपदोत्तरमभेदार्थकतृतीयावशानद्यादितादात्म्येन शेखरादीनामवगमाद्विषयाभिन्नस्वेन विषय्युपस्थितौ सत्यामपि विषयतादात्म्येन प्रकृतानुपयोगात् । इति, तदपि चिन्त्यम् । 'नारायणेनास्त्रिणे' इत्यंशस्य शृङ्गारितायामनुपयोगात् । तदुपादानबलेन प्रकृते शृङ्गारित्वस्य नमस्कार्यत्वप्रयोजकत्वावगमात् । अन्यथा क्रमभङ्गापत्तेः । अस्त्रस्य नारायणतादात्म्यापत्त्यैव तद्गुणीभावेन शिवोत्कर्षपर्यवसानात् । केवलशेखरादीनां शृङ्गार्यन्तरसाधारण्येन नद्यादितादात्म्यापत्त्यैव तदुत्कर्षावगमाच्च ॥ एवम् 'द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्पश्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्वन्नानन्दं सजनानां जगति विजयते श्रीनृसिंहः क्षितीन्द्रः॥' इत्यत्र दूषणमुक्तम्-राज्ञो नृसिंहस्य प्रतिपिपादयिषयैतौ केचिदानन्दजननजगदुत्कर्षों आरोप्यमाणद्वितीयमन्मथादिताद्रूप्येण यथा संभवतो न तथा केवलस्वरूपेणेति । विषयिणः स्वात्मनैवोपयोगो न तु विषयात्मनेति न परिणामत्वमिति, तदपि सावद्यम् । मन्मथादिप्रत्येकसाध्यतत्तत्कार्येषु एकस्यैव राज्ञो हेतुत्वेन चमत्कारातिशयसमुल्लासाद्राज्ञः स्वरूपेणैव तत्रोपयोगादेवोत्कर्षसिद्धेविषयतादात्म्यापेक्षया या अनावश्यकत्वादिति विभावनीयम् ॥ शरीरत्व इति । परिणामखरूपपर्यायधिकरणत्व इत्यर्थः। मानाभावादिति । विशिष्टस्यैव परिणामालंकारत्वाभ्युपगमाद्विषयिणि विषयताद्रूप्यमात्रस्यापि तच्छरीरत्वाभावादित्यर्थः ॥ ननु विशिष्टस्यैव
१. 'गमानं' ख. २. 'तापः शान्तिमेष्यति' ख.