________________
१६४
काव्यमाला।
संभवेन परिणामस्य वाच्यत्वात् । एतेन-एतदसाधुत्वसाधुत्वविषये चित्रमीमांसारसगङ्गाधरयोः कलहो निरस्तः ॥ एतेन-इवार्थशक्तिमूलपरिणामध्वनिप्रकरणे
'पान्थ मन्दमते किं वा संतापमनुविन्दसि ।
पयोधरं समाशाख येन शान्तिमवाप्स्यसि ॥' इत्युदाहरन् रसगङ्गाधरोऽपि परास्तः । तत्रापि पयोधरपदवाच्ययोर्मेघस्तनयोरभेदान्वयसंभवात् ध्वनित्वानौचित्यात् ॥ यदपि
'चिराद्विषहसे तापं चित्तचिन्तां परित्यज ।
नन्वस्ति शीतलः शौरेः पदाब्जनखचन्द्रमाः ॥ इति चित्रमीमांसोदाहृतं परिणामध्वनित्वं रसगङ्गाधरे दूषितम्आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणाम इति खयमेदर्शनात् । वाच्यत्वादिति । तादात्म्यप्रतियोग्यनुयोगिनो: शब्दोपपात्ततया मुखचन्द्रेणेत्यादिविशेषानिरुक्तेः। पदैक्यभेदयोरप्रयोजकत्वादन्यथा 'विद्वन्मानस-'इत्यादावपि वाच्यरूपकाङ्गीकारविरोधापत्तेः । एतेनेति । चित्रमीमांसायां हि परिणामध्वनित्वं दूषितम् । तत्र त्यारोपमाणस्य नृपस्य नृपात्मनैव कर्मत्वेनाक्रमणोपयोगो न तु चन्द्रास्मनेति विषयतादात्म्यापत्त्या प्रकृतानुयोगादिति । रसगङ्गाधरे तु-परिणामध्वनित्वं युक्तमेव । विजृम्भणं हि प्रागल्भ्यमानं न कवेरभिप्रेतम् , येन यशःकर्तृकाक्रमणे नृपास्मनैव विषयिणो नृपस्य कर्मतारूपोपयोग: स्यात् । किंतु खसमानजातीयद्वितीयराहित्यरूपः प्रौढिविशेषः । आक्रमणं तु न्यकार एव । एतादृशविजृम्भणे च चन्द्रकर्मकस्यैवाक्रमणस्योपयोगो न तु नृपकर्मकस्य, तेन यथोक्तप्रागल्भ्यानुपपत्तेः । एवं च विषयित्वेन व्यज्यमानस्यापि नृपस्य विषयभूतचन्द्रात्मनैव प्रकृतोपयोगात्, विद्याधरोक्तं निरवद्यमेव । तदुभयमपि अनुपपन्नं नृपस्यापि राजपदार्थतया परिणामस्य व्यङ्गयत्वायोगादित्यर्थः ॥ अर्थशक्तीति । यद्यप्ययं शब्दशक्तिमूलत्वेनैव तत्र लिखितः । पयोधरपदस्य परिवृत्त्यसहत्वात् । तथाप्यर्थशक्तिमूलपरिणामध्वनिप्रकरणे इत्यत्र समाप्ते इति विशेषो बोध्यः । अत्र तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दरूपसंबोध्यविशेष्यकस्मरतापकतावैशिष्टयबुद्धौ सत्यां सहृदयस्य तादृशतापशामकरमणीयस्तनरूपविषयताद्रूप्यबुद्धिर्भवतीति परिणामध्वनिरिति तस्यार्थः । तस्माद्यत्र नानार्थकशब्दस्यैकत्र तात्पर्य नियामकं प्रकरणादिकमस्ति तत्रैव परिणामस्य व्यङ्गयत्वं युक्त मिति ध्येयम् । तथा 'इन्दुना परसौन्दर्य सिन्धुना बन्धुना विना । ममायं विषमस्तापः केन वा