________________
अलंकारकौस्तुभः।
१६३ 'असारे संसारे विषमविषयारण्यसरणौ
मम प्रामं भ्रामं विगलितविरामं जडमतेः । परिश्रान्तस्यायं तरणितनयातीरनिलयः
___ समन्तात्संतापं हरिनवतमालस्तिरयतु ।' इत्यत्राप्युपमितसमासादुपमैव । न चात्र तापहरणं सामान्यधर्म इति वाच्यम् । तत्र धर्मान्तरेण सादृश्यसिद्धावेव तस्य विधेयत्वात् साधारण्येनाविवक्षितत्वात् । वृक्षान्तरेऽपि तत्सत्त्वेन तमालपत्रोपमायां मेचकत्वादिकस्यैव तन्निर्वाहकत्वाच्च ।
यद्यपि रसगङ्गाधरे'अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन । इयं हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ॥'
अत्र केषां तोषाय न स्यादित्युक्त्या विरहिणामपि तोषजनकत्वप्रतीतेः । शुक्लपक्षरात्रेश्च तत्तोषजनकत्वाभावान्नायिकायास्तादात्म्यापत्त्या तदुपपत्तिरित्युक्तम् । तदप्यसत् । योषादोषयोः समासाभावेऽपि क्षतिविरहेण शुक्लपक्षरात्र्यभिन्ना योषेति रूपकेणैव तत्संभवात् । यत्तु
'नरसिंह महीपाल के वयं तव वर्णने ।
अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥' इति विद्याधरेण परिणामध्वनावुदाहृतम् । तत्तुच्छम् । राजशब्दस्योभयार्थत्वात्तदुपस्थापितयोश्चन्द्रनृपयोरभेदान्वयस्य विद्वन्मानस-'इत्यादाविक
वाच्यम् । तनिमित्तकसाम्यस्यानभिमतत्वात् । आननस्मितपदोत्तरतृतीयाया अभेदोऽर्थः ॥ विरहिणामपीति । सर्वयुवतोषजनकत्वस्य ततो लाभादित्यर्थः । क्षतिविरहेणेति । योषेत्यस्य पृथक्पदत्वे बाधकाभावादित्यर्थः । न चात्र समासविवक्षायां का गतिः । मुखस्मिताभिन्नचन्द्रज्योत्स्नयोरेवात्र उपमानिमित्तत्वादुपमितसमासासंभवादिति वाच्यम् । प्रागुक्तरीतेरेवाश्रयणीयत्वात् । विद्याधरेणेति । राजपदेन चन्द्ररूपविषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यत इत्यर्थः ॥ उभयार्थत्वादिति । 'राजा प्रभौ नृपे चन्द्रे' इति कोश