________________
काव्यमाला। . 'वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति ।' __ अत्रैन्दोः स्वरूपेण स्मरतापानपवादकत्वात् वदनाभेदेनावस्थानमिति रूपकभेद एवायम् । विषयविषयितावच्छेदकान्यतररूपेण निश्चीयमानतदन्यतरकत्वस्यैव रूपकत्वात् ।
'तद्रूपकमभेदोऽयमुपमानोपमेययोः । इति उक्तेरिति वदन्ति । अत्र यद्यपि समासे विशेषणप्रतियोगिकामेदस्यैव संसर्गत्वान्न शाब्दबोधे इन्द्वभिन्नत्वेन वदनस्य पर्यवसानं संभवति, तथापि तत्र मानसेनैव विशेष्यप्रतियोगिकाभेदसंसर्गकबोधेन निर्वाहोऽवसेयः । न चाननचन्द्रेणेत्यत्र चन्द्रपदस्याहादकत्वे लक्षणा, तथा चाहादकेन मुखेन विरहतापः शाम्यति' इति बोध्यम् । एवं चात्र न कश्चिदलंकारः मुखस्य चन्द्रतादात्म्योपपादकस्य लक्षणादेरभावात् । चन्द्रादौ मुखादितादात्म्यापत्त्या वर्णनीयमुखादेरनुत्कर्षेण परिणामस्यालंकारत्वासंभवात् । 'मुखचन्द्रेण तापः शाम्यति' इत्युक्तौ च उपमितसमासस्यैव संभवाचेति न्यायपञ्चाननादयः ॥ एवं च
मनापन्नस्येत्यर्थः । शिशिरीकारकत्वेति । मुख्यं तदित्यर्थः । स्वरूपेणेति । तादात्म्यसंबन्धावच्छिन्नां मुखविशेष्यतानिरूपितां प्रकारतामनासाद्येत्यर्थः ॥ ननु उभयप्रतियोगिकाभेदस्य कथं रूपकत्वम्, उपमेय विशेष्यकोपमानाभेदारोपस्यैव रूपकत्वप्रसिद्धरत आह-विषयेति । भावप्रत्ययावच्छेदकपदार्थयोरुभयत्रान्वयः । तदन्यतरेति । उपमेयोपमानान्यतरेत्यर्थः । रूपकप्रकरणवक्ष्यमाणरीतिमनुसंधायाहएवं चेति । विशेषणेति । तत्र पूर्वनिपातनियमानुरोधेन पूर्वपदार्थस्यैव विशेषणस्वाभ्युपगमात् । वाक्ये तु विवक्षाविशेषवशादुभयस्यापि विशेषणत्वसंभवात्कथंचिस्यादपि तथा बोध इत्यतः समास इत्युक्तम् । एतच्च सर्वमग्रे स्फुटम् ॥ लक्षणेति । चन्द्रपदस्याह्लादकत्वे योगसत्त्वेऽपि पङ्कजा दिपदवद्रूट्यर्थविशेषणत्वेनैव योगार्थबोधस्यावयवशक्त्या बोधस्य नियमितत्वात्केवलयोगार्थबोधाय लक्षणाया आवश्यकत्वात् । लक्षणादेरिति । गौणस्यारोपलक्षणाया इत्यर्थः । अनुत्कर्षेणेति । अभेदानुयोगित्वेन वर्णनीयप्रतीतेरेव तदुत्कर्षबीजताया उभयसंमतत्वादत्र वैपरीत्यकल्पने मानाभावात् । संभवादिति । न चात्रापि तापशान्तिरूपसामान्यधर्मप्रयोगोऽस्त्येवेति
१. 'नेति' ख.