________________
१६१
.. अलंकारकौस्तुभः । तत्र न्यायपञ्चाननादयः-उपमैवेयं भवितुमर्हति । न च प्रसन्नत्वरूपधर्मप्रयोगस्तद्बाधकः, तदतिरिक्तरमणीयत्वादिधर्मनिमित्तकसादृश्यस्य विवक्षितत्वात् । उपमानिमित्तधर्मप्रयोग एवोपमितसमासनिषेधस्य 'भाच्याब्धिः कातिगम्भीरः' इत्याद्यनुरोधेन स्वीकारादित्याहुः । यत्तु रसगङ्गाधरे___'महर्षेासशिष्यस्य श्रावं श्रावं वचःसुधाम् ।
अभिमन्युसुतो राजा परां मुदमवाप्तवान् ॥' इत्युदाहृतम्, तचिन्त्यम् । अत्रोपमितसमास एव, बाधकाभावात्, सामान्यधर्मप्रयोगाभावात् ॥
एवं च क्वचिद्विषयमात्रस्य स्वरूपेण प्रकृतानुपयोगात्तस्यारोप्यमाणाभिन्नत्वेन परिणामः । यथा
_ 'वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ।'
अत्र वदनमात्रस्य शिशिरीकारकत्वाच्चन्द्राभिन्नत्वेनावस्थानम् । यथागात् । ननु धर्मान्तरप्रयुक्तसाम्यविवक्षायामपि प्रसन्नत्वरूपसामान्यधर्मप्रयोगात् कथं समासः, सामान्यधर्मसामान्याभाव एव एतद्विधानादित्यत आह-उपमानिमित्तेति । विवक्षितेत्यर्थः । तथा च साम्यप्रयोजकत्वाभिमतधर्मसामान्यवाचकपदाभावे समासविधानादन्तापिधर्मनिष्ठाभिमतात्यन्ताभावप्रयुक्त विशिष्टाभावसत्त्वात्समास इति भावः । भाष्याब्धिरिति । 'क्वाहं मन्दमतिस्ततः । छात्राणामुपहास्यत्वं यास्यामि पिशुनात्म. नाम् ॥' इति तदुत्तरचरणत्रयमित्ययं कैयटस्य प्रयोगः । न हि भाष्याब्धिरिति रूपकं विवक्षितम् । प्रकृतभाष्यप्राधान्य त्यागापत्तेः । अतो विततदुरवगाहत्वादिधर्मप्रयुक्तसाम्यविवक्षया गाम्भीर्यस्य तत्प्रयोजकत्वमपहाय तत्सत्वेऽपि उपमितसमासाभ्युपगमादित्यर्थः । न च तत्राप्येतन्मते परिणामाभ्युपगमेनैव भाष्यप्राधान्यसंभवात्कथमेतदुपन्यासः । पक्षसमत्वादिति वाच्यम् । सूत्रस्य यथोक्तार्थकत्वेनातिरिक्तकल्पनायोगात्। न च सूत्रेण सामान्याप्रयोग इत्येवोक्तत्वात् उक्तरीत्या तदर्थसंकोचोऽनुचित इति वाच्यम् । सामान्यमांत्राप्रयोगस्य बाधितत्वात् । उपमानिमित्तत्वेन धर्मविशेषणेऽपि धर्ममात्रस्योपमानिमित्ततया बाधतादवस्थ्यात् । तदुपमानिमित्तत्वेन विवक्षितो वा यो धर्मस्तदप्रयोग इत्येव सूत्रार्थपर्यवसानात् । बाधकाभावादिति । प्रत्युत श्रावं श्रावमित्यस्य रूपकसमासं प्रत्येव बाधकत्वादित्यपि बोध्यम् । प्रकारान्तरेण परिणामव्याख्यानमाह-एवं चेति । वदनमात्रस्येति । चन्द्रपदार्थे तादात्म्येन प्रकारता
१. 'मतान्ताभावप्र' क-ख. २ 'मात्र' ख.