________________
१६०
काव्यमाला ।
णुते' इति व्याख्यातत्वात् । अत एव 'चन्द्र इव मुखम्' इत्यत्रोभयविशेष्यकबोधाङ्गीकर्तृमते यथा चन्द्रस्तथा मुखमित्यादिषु प्रकारवाचिथाल्पत्ययवशात्तथात्वेऽप्यत्र मानाभाव एवेत्यपि दूषणं न युक्तम् । सत्यवदनमात्रस्येवपदेनोपस्थापने 'तादृशसत्यवदनानुकूलकृतिमान्' इति बोधेऽपि बा - धकाभावादिति चेत् । सत्यमुक्तम् । परं तु प्रस्तुतार्थप्रतीतिविघातस्य सहृदयानुभवसिद्धत्वाद्दोषविषयत्वमेव । एवमसादृश्यासंभवावप्यनुचितार्थतायामेव पर्यवस्यतः –” इत्याहेति दिकू ॥
यत्तु --
'परिणामः क्रियार्थश्चेद्विषयी विषयात्मना । प्रसन्नेन गजेन वीक्षते मदिरेक्षणा ॥'
अत्र परिणामालंकारः पृथगेव । तथा हि वीक्षणे चक्षुष एव कैरणत्वं न त्वस्येति निर्बाधम् । दृगजेत्यत्र रूपकखीकारे चाब्जप्राधान्याद्वीक्षणानुपपत्तिः । न चोपमैवास्त्विति वाच्यम् । प्रसन्नत्वरूपसामान्यधर्मप्रयोगस्य बाधकत्वात् । तस्मादजस्य हगात्मना परिणामैन प्रकृतोपयोगादलंकारान्तरमेवेति ॥
निरूढत्वात् । नन्वेवं ‘तदैवैक्षत बहुस्यां प्रजायेय:' इत्यादावीक्षणपूर्वकसृष्टिश्रवणादचेतनस्य सांख्याभिमतस्य प्रधानस्य जगत्कारणत्वं नेत्यर्थकस्य 'ईक्षतेर्नाशब्दम्' इति वेदान्तसूत्रस्यानुपपत्तिः । ब्रह्मणोऽपि चाक्षुषज्ञानाभावेन तत्रापीक्षणस्य गौणत्वापत्त्या गौणत्वेन तस्य कार्योन्मुखत्वमर्थमादाय प्रधानेऽपि तदाञ्जस्य संभवेन सांख्यमताद्विनिगमकाभावादिति चेत्, सत्यम् । तथापि वेदान्तमते विशिष्टवाचकस्य सामान्यपरत्वे लक्षणायामपि शक्यतावच्छेदकव्यापकजातिपरत्वम् । सांख्यमते तु तदपि नेति विशेषसंभवात् । वस्तुत ईक्षतेर्ज्ञानसामान्यवाचकत्वेऽपि प्रकृतसंगतेः । पद्मस्यापि स्वचाक्षुषहेतुत्वात्कारणत्वमात्रमुपेक्ष्याह - कारणत्वमिति । अब्जप्राधान्यादिति । • रूपकसमासे उत्तरपदार्थविशेष्यत्व नियमात् । वीक्षणानुपेति । अब्जस्य करणत्वेन वीक्षणं प्रत्यन्वयानुपपत्तिरयोग्यत्वादित्यर्थः ॥ न चेति । तथा च अब्जसदृश्या दृशेति पूर्वपदार्थ प्राधान्यादन्वयोपपत्तिरित्यर्थः । सामान्यधर्मेति । 'उपमितं व्याघ्रा - दिभिः सामान्याप्रयोगे' इति वचनात् सामान्यधर्मप्रयोगे उपमितसमासविरहात् । तस्मादिति । विषयिणोऽब्जस्य विषयभूतदृक्तादात्म्यापत्त्यैव वीक्षणक्रियायामुपयो१. 'कारणत्वम्' इति मूलपुस्तकद्वयपाठः.