________________
अलंकारकौस्तुभः।
१५९ ऽपि तथा च 'लतानिष्ठान्योन्याभावप्रतियोगितावच्छेदकसमानाधिकरणत्वे सति लतानिष्ठात्यन्ताभावप्रतियोगि यद्विभ्राजमानादि तद्वती त्वम्' इति शाब्दबोधः । न चात्र पुरुषभेदः प्रतिकूलम् । एवं विधिभेदस्थलेऽपि प्राप्तेः सामान्यधर्मत्वाभावेन तत्राक्षिप्तसामान्यधर्मद्वारिकैवोपमा । अतस्तस्या उपमानपदेऽनन्वय एव ॥ अथ यत्र कालाधवरुद्ध एवार्थः साधारणतया विवक्षितस्तत्र का गतिः । यथा 'युधिष्ठिर इवायं सत्यं वदति' इति । युधिष्ठिरे हि 'अवादीत्' इत्यन्वेति, न तु वदतीति चेत् । सत्यम् । तत्रापि 'युधिष्ठिर एव सत्यवादी अयं सत्यं वदति' इति सत्यवादित्वरूपाक्षिप्तधमेंणोपमास्वीकारेण वदतीत्यस्य युधिष्ठिरेऽन्वयानङ्गीकारात् । न चात्र पौनरुक्त्यापत्तिरिति वाच्यम् । यथा 'धनेन पुष्णाति' इति वक्तव्ये पुषणमुलि 'रैपोषं पुष्णाति' इत्यत्रानुप्रयोगे न पौनरुक्त्यम्, तद्वदत्रापि ॥ अथ तत्रानुप्रयोगानुशासनबलात्तथा, अत्र तु न किमपि प्रमाणमस्तीति चेत् । यथा 'युधिष्ठिरः सत्यमवादीत्तथायं सत्यं वदतीति कल्पने बाधकाभावात् । न चात्र मानाभावः । 'उतो त्वस्मै तन्वं विसझे जायेव पत्ये उशती सुवासाः' इति मन्ने महाभाष्यनिरुक्तकाराभ्यां 'तद्यथा जाया पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते एवं वाग्वाग्विदे खमात्मानं विवृ
इति पूर्वार्धम् ॥ रैपोषमित्यत्र रैशब्दो धनार्थक इति दर्शयन्नाह-धनेनेति । 'अर्थरैविभवा अपि' इत्यमरः । उपमानोपमेयोभयविशेष्यकबोध उपमादुष्टत्वव्यवस्थापनाय कैश्चिदाश्रितोऽप्यन्यैः प्रथममेव निरस्त इत्याशङ्कते-न चेति । उतो इति । 'उतत्वः पश्यन्न ददर्श वाचमुतत्वः शृण्वन्नशृणोत्येनाम्' इति पूर्वार्धम् । उतेत्यपिशब्दार्थे त्वशब्दः सर्वादिरन्यपर्यायः । प्रत्यक्षेण शब्दखरूपमुपलभमानेऽपि प्रकृत्यादिविभागतदर्थापरिज्ञानान सम्यग्वेत्तीत्यविनिन्दापूर्वार्धार्थः ॥ उत्तरार्धार्थ त्वाह-. महाभाष्यति । एतेन तादृशबोधस्य प्रामाणिकत्वसूचनम् । उशतीत्यस्य विवरणं कामयमानेति । तन्वमित्यत्र 'अमि पूर्वः' इत्यत्र 'वा छन्दसि' इत्यनुवृत्तेर्यणादेशः । तस्य विवरणम्-स्वमात्मानमिति । 'विवत्रे' इत्यस्य छान्दसलकारव्यत्ययेन लडर्थकत्वमित्याह-विवृणुत इति । प्रकाशयतीत्यर्थः । त्वस्मै अन्यस्मै इत्यत्र भेदस्य प्रतियोग्यपेक्षायां पूर्वार्धापस्थितस्याविदुष एव तत्वेनान्वयः । तथा च विद्वानत्र लभ्यत इत्याह-वाग्विद इति ॥ चक्षुष एवेति । चाक्षुषज्ञान एव वीक्षणस्य