________________
१५८
पुरुषभेदो यथा
काव्यमाला |
'प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकाभा । विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपिप्रभवा लतेव ॥'
अत्र वासवदत्तायां विभ्राजसे इति मध्यमपुरुषोऽन्वेति लतायां तु विभ्राजते इति प्रथम एव || विधिभेदो यथा - 'गङ्गेव प्रवहतु ते सदैव कीर्तिः' इत्यत्र कीर्तौ विध्यर्थः संभवति । न तु गङ्गायां सिद्धत्वात् । एवम् 'पुत्रं लभखात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ।' 'चिरं जीवतु ते सूनुर्मार्कण्डेयो मुनिर्यथा ।'
इत्यादावपि बोध्यम् । न चात्र दोषत्वमेव नास्ति, कुतोऽतिरेकान्तविचारः । तथाहि कालादिविशेषान्वितधर्मातिरिक्तेनोभयान्वयिना उपात्तेन वाक्षिप्तेन सामान्यधर्मेण उपमासंभवे कालविशेषावरुद्धधर्मस्य उपमानान्वयविरहेऽपि क्षत्यभावात् । यथा 'प्रत्यग्रमज्जन-' इत्यत्र विविक्तमूर्तित्वादिना धर्मेण लतानायिकयोरुपमासिद्धौ विभ्राजस इत्यस्य नायिकायामेवान्वयसंभवेन लतायामन्वयानभ्युपगमात् ।
वस्तुतस्तु —— साधारणधर्मप्रयोगस्थले इवपदेन तस्यैवोपस्थापनमिति प्रागुक्ततया विभ्राजनमिति धात्वर्थमात्रं तेनोपस्थाप्यते न त्वाख्याताद्यर्थो
वेशो न दोषः ॥ [अन्यमिति । उ इति पादपूरणे । यमीति संबोधनम् ॥ लिबुजाशब्दस्य छन्दसि लतापर्यायत्वमित्यभिप्रेत्याह - लतेवेति ।] प्रत्यग्रेति । वत्सराजोक्तिः । विविक्तत्वं रमणीयत्वम् ॥ कौसुम्भेति । शैषिकोऽण् ॥ [अग्निरिवेति । न च वेदे वक्तरशक्त्यनुन्नयनात्कथं दोषत्वमिति वाच्यम् । न ह्येषां तदुन्नायकत्वेन दोषत्वम्, किंतु बोधविलम्बदशाकर्षादिजनकत्वेनैव तस्य च लोकवेदयोरविशिष्टत्वात् ।] पुत्रमिति । रघुं प्रति कौत्सवाक्यम् — — आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते"
१. अस्य 'अन्यम् षु त्वं यम्यन्य उ त्वां परिष्वजाते लिबुजेव वृक्षम् ।' इति मूलं तु वैदिकोदाहरणरूपं मूलं पुस्तकद्वयेऽपि नोपलभ्यते. २. अस्यापि मूलं वैदिकोदाहरणं मूलपुस्तकद्वयेऽपि नोपलभ्यते.