________________
. अलंकारकौस्तुभः ।
१५७ प्रतीयमानं साधर्म्यमाश्रित्योपमा भविष्यतीति चेत् । तर्हि उपात्तेन धर्मेण प्रक्रान्तस्योपमारूपस्यार्थस्य स्फुटमनिर्वाहात् भग्नप्रक्रमत्वमेव ॥ यत्र तु तद्भेदेऽप्युपमान्वययोग्यं साधारणधर्माभिधायि पदं तत्र न दोषः । यदुक्तं काव्यडाकिन्याम्
'श्लेषमर्थादयो यत्र पदं साधर्म्यवाचकम् । ___ उभयान्वयि यत्रापि नास्य दोषस्य संस्थितिः ॥' लिङ्गभेदे यथा
'गुणैरनध्यः प्रथितो रतैरिव महार्णवः ।' अत्र गुणरत्नयोभिन्नलिङ्गत्वेऽपि अनध्यैरिति रूपभेदाभावादुभयत्रान्वययोग्यम् । वचनभेदे यथा
'तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव ॥' अत्र वेषविभ्रामशब्दौ एकवचनबहुवचनान्तौ । तत्रासदृश इति सदृशशब्दस्यैकवचनान्तम् सदृश्शब्दस्य बहुवचनान्तम् । 'समानः सदृशः सदृक्' इत्यमरः । भृत इति क्तप्रत्ययान्तस्यैकवचनान्तम् । दधते इति 'दध धारणे' इति भौवादिकस्यैकवचनान्तम् । 'डुधाञ् धारणे' इति जुहोत्यादिपठितस्य बहुवचनान्तं रूपमित्युभयत्रान्वयबोधसंभवात् ॥
एवं कालपुरुषविध्यादिभेदोऽपि भमप्रक्रम एवान्तर्भवति । तत्र कालभेदो यथा
'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती।
पश्चिमाद्यामिनीयामाप्रसादमिव चेतना ॥ इह चेतनायामामोतीत्यन्वेति, न त्वापेति भूतकालः । अत आपेति प्रकृतकालेनोपमाया अनिर्वाहात्क्रमभङ्गः । न च अतीतायां प्राप्तौ चेतनान्वयः संभवत्येवेति वाच्यम् । त्रैकालिकप्राप्तेरेव विवक्षितत्वात् , अतीतत्वेन तात्पर्याभावादिति वदन्ति ।