________________
१५६
काव्यमाला। एवमुपमानपदेन तद्धर्मविशिष्टोपमानबोधकतया तद्धर्मप्रतिपादने उपमेये धर्माधिक्यमदोषः । यथा
'अभिहन्ति हन्त कथमेष माधवं
सुकुमारकायमनवग्रहस्मरः । अचिरेण वै कृतविपर्वतदारुणः
कलभं कठोर इव कूटपाकलः ॥' अत्र कलभपदेनैव सुकुमारकायताप्रतीत्या तदंशे न तदपेक्षा ।
एवं न्यूनपरिमाणताप्रत्यायनतात्पर्ये परिमाणहीनत्वमुपमानस्य बोध्यम् । यथा
'दिव्यहरेर्मुखकुहरे विस्तीर्णे पर्णति व्योम ।' अत्र पर्णस्योपमानस्य गगनापेक्षया हीनपरिमाणत्वेऽपि नृसिंहमुखपरिणामे च तात्पर्यम् । ___ काव्यप्रकाशकारस्तु-"उपमानस्य जातिप्रमाणगे न्यूनत्वाधिकत्वे अनुचितार्थतायामेवान्तर्भावः । न च उपश्लोकनीयनिन्दाव्यञ्जकत्वस्यानुचितत्वलक्षणत्वोक्तेः कथमेतदिति वाच्यम् । दोषान्तरलक्षणानाक्रान्तत्वे सति औचित्याभाव एवानौचित्यमित्यभिप्रायेण तथोक्तेरिति तद्व्याख्यातारः । एवं धर्मगते न्यूनत्वाधिकत्वे अपि हीनपदत्वाधिकपदत्वयोरेवान्तर्भवतः । एवमुपमानोपमेययोलिङ्गवचनभेदोऽपि भग्नप्रक्रमत्वान्नातिरिक्तः । तथा हि। तत्र साधारणधर्मस्योपमानोपमेयान्यतरलिङ्गत्वे तस्य समानलिङ्गेन सहैवान्वयेन भाव्यम् । तथा च तस्य साधारण्याभावात्कथमुपमा ॥ अथ तत्र वान्न दोषत्वमित्यर्थः ॥ उपमानपदेनेति । तद्वाचकपदेनेत्यर्थः । वाचकत्वस्य षष्ठयर्थत्वात् । अभिहन्तीति । मालतीमाधवे मकरन्दोक्तिः । 'कलभः करिशावकः' इत्यमरः । कूटपाकलो गजानां वातरोगविशेषः । 'गजं वातात्मको हन्यात्तथा वै कूटपा. कलः' इत्युक्तेः । सुकुमारेति । नवयौवनस्थायाः प्रतीतेरित्यर्थः । तथा च सुकुमारकायमित्यस्य कलभांशान्वयेनेति भावः । दिव्यहरेरिति । 'चूर्णति चन्द्रः क्रमुकति कनकगिरिः खदिरसारति खरांशुः' इति रसतरङ्गिण्यामुत्तरार्धम् । काव्यप्रकाशेति । शब्दतस्तात्पर्यतश्च तदर्थस्यात्रानुवाद इति ततोऽर्वाचीनोक्तीनामपि तदुक्तिमध्ये नि