________________
अलंकारकौस्तुभः ।
१५६
लौकिक्यां यथा
___ 'पश्यामि लोचने तस्याः पुष्पं पुष्पलिहो यथा ।' इहोपमानोपमेययोभिन्नवचनत्वम् । समासाभिहितायां यथा'सत्पक्षप्रसरः सतां परिमलप्रोद्बोधबद्धोत्सवो
विम्लानो न विमर्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः । कृष्णस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रम
चेतो मे रमयत्वविघ्नमनघन्यायप्रसूनाञ्जलिः ॥' अत्र 'न्याय इव प्रसूनाञ्जलिरञ्जलिस्थानि कुसुमानि' इत्युपायकारोक्तेर्वचनभेदः ॥
उपमाप्रपञ्चे यथा—'शुद्धान्त-' इत्यादावेव वनलतानां बहुवचनान्तत्वं जनस्यैकवचनान्तत्वमिति ।
तथानिन्दायामेव तात्पर्ये उपमानस्य जातिहीनत्वं न दोषः । यथा
'चाण्डालश्च दरिद्रश्च द्वावेव सदृशौ मम ।
चाण्डालस्य न गृह्णाति दरिद्रो न प्रयच्छति ॥' स्वादित्यर्थः ॥ सत्पक्षेति । न्यायकुसुमाञ्जलावाचार्याणां मङ्गलाचरणम् । न्यायः प. श्चावयववाक्यं सप्रसूनाञ्जलिरिवेत्युपमितसमासः । सति प्रामाणिके पक्षे साध्यधर्मिणि प्रसरः संबन्धो यस्य । सतां परामर्शकुशलानां परि सर्वतो भावेन मल: संबन्धः । व्याप्तिरिति यावत् । विमर्दनं विरोधितर्कोद्भावने विम्लान: वकार्यसाधकत्वाभावहीन: अमृतं मोक्षः पदयुगम् , अन्वयिव्यतिरेकिरूपं पक्षे पक्षपदं दलपरं सतामनुपहतघ्राणेन्द्रियाणाम् । परिमल: आमोदः । विमर्दनमुपभोगः । अमृतसदृशरसहेतोर्माध्वीकस्य मकरन्दस्य जनकः ॥ अञ्जलिशब्दस्याप्यत्रैकवचनान्तत्वात्कथं वचने भेद इत्यत आहअत्रेति । तथा च विवक्षिते वचनभेद एव । यद्वा व्याख्यानवाक्यमेवोदाहरणमिति भावः । अन्यत्राप्यौचित्यवशात्प्रतिप्रसवमाह-तथा निन्दायामिति । उपश्लोक्य तिरस्कारप्रतीतिर्हि जातिहीनसूच्यत्वे दूषकताबीजम् । तस्यैव विवक्षायां तु बीजाभा
१. 'हीनत्व' क.