________________
१५४
काव्यमाला।
यथा च
'निविष्टायाः कोपाद्गुरुसदसि पङ्केहदृशः ___ पदोपान्ते छायामुपनयति मूर्धप्रणयिनि । तया चक्षुर्लीलाकमलरजसा दूषितमिति
ध्रुवं मुक्ता मुक्ताफलपरिणता बाष्पकणिकाः ॥' भुजलता पङ्केहदृशः इत्युभयत्रापि लिङ्गभेदः । एवं साधारणधर्मसमासेऽपि यथा'निर्मुक्तशेषधवलैरचलेन्द्रमन्थ
विक्षुब्धदुग्धमयसागरगर्भगौरैः । राजन्निदं बहुलपक्षदलन्मृगाङ्क
___ च्छेदोज्ज्वलैस्तव यशोभिरशोभि विश्वम् ॥' यथा च'मुक्तं मुक्तागौरमिह क्षीरमिवात्रैर्वापीष्वन्तीनमहानीलशिलासु । शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छामृच्छति नीलां सलिलस्य ॥' प्रायेणेत्युक्ते 'हंसीव धवला' इत्यादौ दुष्टत्वमेव ॥ उपमाप्रपञ्चे यथा
'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृता खलु गुणैरुद्यानलता वनलताभिः ॥' अत्राश्रमवासिजनवनलतयोलिङ्गभेदः । एवं वचनभेदेऽप्यदोषो ज्ञेयः ॥ दमुदाहरति-यथा चेति । गुरुसदसीति साक्षादनुनयानर्हत्वसूचनम् । पदान्ते शिरश्छायोपनयनं प्रसादाथै प्रणामाभिप्रायम् । उत्तरार्धे बाष्पत्यागो मानभङ्गसूचनार्थः ॥ निर्मुक्तेति । अनर्घ्यराघवे दशरथं प्रति विश्वामित्रोक्तिः । 'निर्मुक्तो मुक्तकञ्चुकः' इति सर्वप्रकरणेऽमरः । अत्र शेषादीनामुपमानानां पुंस्त्वं यशसां तु क्लीबत्वम् । स्त्रीलिङ्गोपमाने साधारणधर्मसमासमुदाहरति-यथा चेति । मुक्तमिति । माघे रैवतकवर्णनम् । उपमाप्रपञ्च इति । सादृश्यपर्यवसायित्वात्तथात्वमित्यर्थः । शुद्धा. न्तेति । शकुन्तलामालोक्य दुष्यन्तस्योक्तिः । 'शुद्धान्तश्चावरोधनम्' इत्यमरः । अत्रैकवचनभेदमुदाहरति-एवमिति । जनस्यैकवचनान्तत्वात् लतानां च बहुवचनान्त१. 'मिच्छति' क.